वसंत ऋतु संस्कृत निबंध। Spring Season Sanskrit Essay
अस्माकं देशे प्राकृतिकसुषमायाः साम्राज्यमस्ति अत्रैव प्रकृतिनटी प्रतिक्षणं नव्यं भव्यञ्च नाटति। अत्रैवकस्मिन् वर्षे षड् ऋतवो मनोविनोदाय नवचेतनासंचाराय समायान्ति। तत्र चैत्रवैशाखय़ोः वसन्तः, ज्येष्ठाषाढ़य़ोः ग्रीष्मः, श्रावणभाद्रपदयोः वर्षाः, आश्विनकार्तिकय़ोः शरत्, मार्गशीर्षपौषय़ोः शिशिरः, माघफाल्गुनय़ोः हेमंतश्च ऋतुः। एवम क्रमेण भारते ऋतुणां क्रमः प्रचलति। तत्रापि वसंतर्तुः सर्वाधिकं महत्वं बिभर्ति।
वसन्तः रमणीयः ऋतुः अस्ति । इदानीं शीतकालस्य भीषणा शीतलता न भवति । मन्दं मन्दं वायुः चलती । विहंगाः कूजन्ति । विविधैः कुसुमैः वृक्षाः आच्छादिताः भवन्ति । कुसुमेषु भ्रमराः गुज्जन्ति । धान्येन धरणी परिपूर्णा भवति । कृषकाः प्रसन्नाः दृश्यन्ते । कोकिलाः मधुरं गायन्ति । आम्रेषु मज्जर्यः दृश्यन्ते । मज्जरीभ्यः मधु स्रवति ।
वसंतर्तुः सर्वेषां प्राणीणां शरीरेषु नवचेतनायाः नवोत्साहस्य नूतनरक्तस्य नव्यभावविलासस्य च संचारं करोति। वसन्तकाले वायुः स्वास्थ्यवर्धकः, प्राकृतिकशोभा मनोरागिणी, वनानि च सौरभैः परिपूरितानि भवन्ति। मधुलोलुपाः भ्रमराः मधुकराङ्गनाभिः सह पुष्पेषु सञ्चरन्ति।
Writing good essay is quite easy and very difficult simultaneously. It depends on the individual skill set also. You can get help from essay writing. Check out, please DigitalEssay.net
ReplyDelete👍👍
ReplyDelete