Tuesday, 16 August 2022

जन्माष्टमी पर संस्कृत निबंध (Essay on Janmashtami in Sanskrit)

Essay on Janmashtami in Sanskrit : इस निबंध में पढ़िए 10 Lines on Janmashtami in Sanskrit for Class 1, 2, 4 and 4 और जन्माष्टमी पर संस्कृत निबंध for Class 5, 6, 7, 8, 9 and 10. जन्माष्टमी हिन्दुनां प्रियम् उत्सवम् अस्ति। श्रीकृष्णजन्माष्टमी इति कृष्णस्य जन्मोत्सवः आचर्यते। 

10 Lines on Janmashtami in Sanskrit

  • जन्माष्टमी हिन्दुनां प्रियम् उत्सवम् अस्ति।
  • श्रीकृष्ण जन्माष्टमी इति कृष्णस्य जन्मोत्सवः आचर्यते।
  • भगवान् श्रीकृष्णस्य जन्म: भाद्रपदस्य कृष्णपक्षस्य अष्टम तिथौ अभूत।
  • जन्माष्टम्यां पूजाकर्तारः अर्धरात्रसमये एव पूजाम् आचरन्ति । 
  • एषः श्रीकृष्णः महाविष्णोः नवमः अवतारः।
  • यदुकुले जात: श्रीकृष्ण: वासुदेवदेवक्योः पुत्रः।
  • भगवान् श्रीकृष्ण: एक: योगी पुरुष: आसीत्।
  • श्रीकृष्णाय दुग्धं, दधि, नवनीतं च अतीव रोचते स्म। 
  • तेन एकस्याम् अङ्गल्यां गोवर्धनपर्वत: घृतः इति कथ्यते। 
  • सः एव आदिपुरुषः, परब्रह्म, पुरुषोत्तमः।
  • श्रीकृष्णस्य उपदेशः ‘भगवद् गीता' नाम ग्रन्थरूपेण प्रसिद्धः।

जन्माष्टमी पर संस्कृत निबंध (Essay on Janmashtami in Hindi)
जन्माष्टमी पर संस्कृत निबंध (Essay on Janmashtami in Sanskrit)

श्रीकृष्णजन्माष्टमी इति कृष्णस्य जन्मोत्सवः आचर्यते। गोकुलाष्टमी, जन्माष्टमी, कृष्णजयन्ती, श्रीजयन्ती इत्यादिभिः बहुभिः नामभिः भारतस्य सर्वेषु भागेषु आचर्यते एतत् पर्व। सर्ववर्णानाम् आश्रमाणां वर्गाणां जनैः आचर्यमाणं प्रियं पवित्रं च पर्व अस्ति श्रीकृष्णजन्माष्टमी। तद्दिने सर्वत्र पूज्यमानः देवः परमपूज्यः श्रीकृष्णः। एषः श्रीकृष्णः महाविष्णोः नवमः अवतारः। अयं मार्त्यलोके अवतीर्णः चेदपि साक्षात् भगवान् एव। कृष्णस्तु भगवान् स्वयम्, दशाकृतिकृते कृष्णाय तुभ्यं नमः ईश्वरः परमः कृष्णः, कृष्णं वन्दे जगद्गुरुम् इत्यादिभिः वाक्यैः सः अभिप्रायः पुरस्क्रियते।

सः एव आदिपुरुषः, परब्रह्म, पुरुषोत्तमः। स्मृतिषु, पुराणेषु, इतिहासेषु, काव्येषु, प्रबन्धेषु च महर्षिभिः, भागवतैः, आचार्यैः, दासश्रेष्ठैः, कविभिः, कीर्तनकारैः एवं सर्वप्रकारकैः अपि स्तुतः देवः श्रीकृष्णः। सः न केवलं देवः अपि तु देवानाम् अपि देवः तं देवतानां परमं च दैवतम् इति वदन्ति महात्मानः। मनुष्यः इव व्यवहरन् अपि ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेज-आत्मगुणसम्पन्नः परमपुरुषः। न केवलं मनुष्यमात्रान् अपि तु गो-गोपाल-पशु-पक्षि-वृक्ष-वनस्पत्यादीन् अपि उद्धृतवान् दयानिधिः। सौन्दर्यनिधिः, कलानिधिः, महाभारतस्य सूत्रधारः, महावीरः, धर्मप्रभुः, धर्मनिरतानां पाण्डवानां बन्धुः, मित्रं, मन्त्री, दूतः, उपायचतुरः, राजनीतिज्ञः,विद्वान्, द्वैवमानवः, गीतोपदेशं कृतवान् योगाचार्यः श्रीकृष्णः।

श्रीकृष्णः श्रावणमासे जातः इति कुत्रचित्, भाद्रपदमासे इति अन्यत्र, सिंहमासे इति अपरत्र उक्तम् अस्ति।
  • भाद्रपदमासस्य कृष्णपक्षस्य अर्धरात्रसमये सिंहराशिस्थिते सूर्ये, वृषभलग्नस्थिते चन्द्रे रोहिणीनक्षत्रे देवकीवसुदेवयोः पुत्ररूपेण अवतारम् अप्राप्नुवम् इति श्रीकृष्णः एव अवदत् इति भविष्योत्तरपुराणं वदति।
  • अभिजिन्नाम नक्षत्रं जयन्तीनाम शर्वरी। मुहूर्तो विजयो नाम यत्र जातो जनार्दनः ॥ इति हरिवंशे उक्तम् अस्ति।
  • प्राजपत्येन संयुक्ता अष्टमी सा यदा भवेत्। श्रावणे बहुले सा तु सर्वपापप्रणाशिनी।। इति वदति स्कान्दपुराणम्।
  • अष्टम्यां तिथौ रोहिणीनक्षत्रे अर्धरात्रसमये जातः इत्ययम् अंशः सर्वसम्मतः अस्ति।
जन्माष्टम्यां पूजाकर्तारः अर्धरात्रसमये एव पूजाम् आचरन्ति। मध्यरात्रपूजा एव प्रशस्ता इति। अशक्ताः अर्धरात्रितः पूर्वं वृषभलग्ने अपि पूजाम् आचरन्ति। सिंहराशि-अष्टमीतिथि-रोहिणीनक्षत्र-बुधवासर-हर्षणयोग-कौलवकरणयुक्तायाम् अर्धरात्रौ चन्द्रोदयावसरे वृषभलग्ने कृष्णाष्टमीपूजा क्रियते। अस्मिन् दिने पूजाकर्तारः उपवासम् आचरन्तः सायं पुनरपि स्नात्वा अह्निकादिकं समाप्य श्रीमद्भागवतस्य, हरिवंशस्य, विष्णुपुराणस्य, भगवद्गीतायाः वा पारायणं कुर्वन्ति। अनन्तरम् उपर्युक्ते श्रीकृष्णजन्मसमये सम्प्राप्ते षोडशोपचारपूजां कुर्वन्ति । नैवेद्यार्थम् अपि भक्ष्य-भोज्य-चोष्य-लेह्य-पानीयसहितं षड्रसोपेतं शास्त्रीयं सर्वविधं पदार्थं समर्पयन्ति। पूजार्थमपि शास्त्रीयाणि सर्वविधफल-पुष्प-पल्लव-तोरणानि भवन्ति। विशेषतया गोक्षीरं, क्षीरान्नं, परमान्नं, गुडयुक्तपृथुकं, नवनीतं, शुण्ठिगुडमिश्रणं च समर्पयन्ति। वेदमन्त्रैः, शास्त्रवाक्यैः, इतिहासपुराणसूक्तिभिः, अष्टोत्तरशत-सहस्रनामभिः, स्तोत्रैः, गीत-नृत्यैः आराधयन्ति।
क्षीरोदार्णवसम्भूत ह्यत्रिनेत्रसमुद्भव।
गृहाणार्घ्यं मया दत्तं रोहिण्या सह्तः शशिन् ॥
आजन्ममरणं यावत् यन्मया दुष्कृतं कृतम्।
तत्प्रणाशाय गोविन्द प्रसीद पुरुषोत्तम।
इति वदन्तः अर्घ्यं समर्पयन्ति। रात्रिपूर्णं जागरणं कृत्वा अनन्तरदिने प्रातः नित्यकर्मणाम् अनन्तरं श्रीकृष्णस्य उत्तराराधनं कृत्वा ब्राह्मणभोजनं कारयित्वा स्वर्ण-गो-वस्त्रादीनां दानं कुर्वन्ति। कुत्रचित् देवक्याः प्रसवगृहम् प्रकल्प्य तत्र पूर्णकुम्भम्, आम्रपर्णानि, पुष्पाणि, धूपदीपादिकं संस्थापयन्ति। प्रकोष्ठस्य भित्तिषु देवगन्धर्वाणां, वसुदेवदेवकी-नन्दयशोदादीनां, गोपिकानां, कंसस्य रक्षकभटादीनां, यमुनानद्याः, कालियस्य अन्येषां नागानां, गोकुलस्य इतरासां घटनानां च चित्राणि लिखन्ति । मध्याह्ने तिलजलेन वा महातीर्थेन वा स्नान्ति। मध्यरात्रसमये सङ्कल्पपूर्वकं मन्त्रसहितं शय्यायां शयितौ देवकीकृष्णौ कल्पयन्ति। अनन्तरं स्वर्णस्य वा रजतस्य वा विग्रहे प्राणप्रतिष्ठां कृत्वा भगवतः जातकर्म नामकरणादिकं कुर्वन्ति। चन्द्रोदयावसरे रोहिणीसहिताय चन्द्राय अर्घ्यं समर्पयन्ति। रात्रिपूर्णं जागरणं कृत्वा अपरस्मिन् दिने प्रातः श्रीकृष्णस्य उत्तराराधनं कृत्वा दानादीन् विधीन् निर्वहन्ति।

सर्वत्रापि कृष्णाष्टम्यवसरे सार्वजनिकरूपेण दधिकुम्भभञ्जनस्पर्धां, कृष्णवेषस्पर्धां, भगवद्गीतायाः वा कृष्णस्तोत्राणां वा कण्ठपाठस्पर्धां, शोभायात्रां च आयोजयन्ति।
Related Aticle :

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: