जल पर संस्कृत निबंध (Water Essay in Sanskrit) जलम् एव जीवनम्। पृथिव्यां ७०% जलम् अस्ति। जलेन एव सर्वजीवानां जीवनं सम्भवति। जलम् एव जीवनम् इति उक्त्यनु
जल पर संस्कृत निबंध (Water Essay in Sanskrit)
जल पर संस्कृत निबंध
जलम् एव जीवनम्। पृथिव्यां ७०% जलम् अस्ति। जलेन एव सर्वजीवानां जीवनं सम्भवति। संस्कृते जलस्य बहूनि नामानि सन्ति। यथा – उदकं, नीरं, वारि तथा च तोयम्। वयं शुद्धं जलं केवलं वर्षायाः विन्दामः। एतत् जलं नदीषु, तडागेषु, सरोवरेषु च एकत्रितं भवति। एतत् जलम् अस्माकं क्षेत्राणि उद्यानानि च सिञ्चति। नदीनां जले जलजीवाः जीवन्ति। नदीनां तीरेषु नैकानि नगराणि वर्तन्ते।
जलस्य उपयोगं तु सर्वत्रैव भवति। जलेन तृष्णायाः निवारणं भवति। जलस्य पानेन शीतलता अनुभूयते, उत्साहः च वर्धते। पानाय, भोजननिर्माणाय, भोजनाय च जलस्य आवश्यकता अस्ति। स्नानाय, वस्त्रप्रक्षालनाय, गृहस्वच्छतायै च जलम् उपयुज्यते। नगरस्वच्छतायै, उद्योगेभ्यः, पशुपालनाय च जलस्य आवश्यकता अस्ति।
जनाः जले वस्त्राणि तथा च पात्राणि क्षालयन्ति। अनेन जलं दूषितं भवति। दूषितजलस्य कारणात् हानिः भवति। दूषितेन जलेन क्षेत्राणि शुष्यन्ति, जीवाः च नष्टाः भवन्ति। दूषितजलस्य प्रभावेण बहवः रोगाः समुद्भवन्ति। यथा – ज्वरः, अतिसारः च। अतः अयम् अस्माकं धर्मः, यत् अस्माभिः जलसंरक्षणं, तस्य संवर्धनं च करणीये।
“२२ मार्च” इति दिनाङ्के विश्वजलदिवसः भवति।
Water Essay in Sanskrit
जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते। जीवनाय जलम् आवश्यकं वर्तते। तृष्णायां सत्यां जलेन एव निवारणं भवति। पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम्। अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते। जलं सौरमण्डले दुर्लभं वर्तते। अन्यत्र कुत्रापि जलं नास्ति। पृथिव्यां जलं पर्याप्तम् अस्ति। अतः पृथिवी नीलग्रहः इति उच्यते।
"जलं हि प्राणिनः प्राणाःजलं शस्यस्य जीवनम्।न जलेन विना लोकेशस्यबीजं प्रजायते।।”
जलं निरन्तरं स्वरूपं परिवर्तते। सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति। जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति। जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते। अस्माकं पृथिवी स्थलशाला इव अस्ति। अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते। महासागराणां, समुद्राणां च जलं लावण्यं वर्तते। तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते। जलम् एकं चक्रीयसंसाधनं वर्तते। पौनःपुन्येन जलस्य उपयोगः क्रियते। अस्मिन् जलचक्रे जलं महासागरतः धरातलं, धरातलतः महासागरं प्राप्नोति। इदं चक्रं सततं कार्यरतम् अस्ति। पृथिव्यां जीवनाय आवश्यकतत्त्वं वर्तते। जलस्य वितरणं पृथिव्याम् असमानम् अस्ति। केषुचित् क्षेत्रेषु जलम् अधिकमात्रायां प्राप्यते।
COMMENTS