चाणक्य पर संस्कृत निबंध (Essay on Chanakya in Sanskrit)
चाणक्य पर संस्कृत निबंध: चाणक्यः मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत्। चाण्क्यस्य मूलनाम "विष्णुगुप्तः" इति आसीत्। स: चणकस्य पुत्र: आसीत् अतः एव ’चाणक्य:’ इत्यपि कथ्यते। तस्य एव अपरं नाम 'कौटिल्य:' इत्यपि आसीत्। चाणक्यस्य जन्म ख्रीस्तपूर्वतृतीयशताब्दे अभवत्। स: स्वयं राजनीतिज्ञ: आसीत्। चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत्।
सः प्राचीनभारतस्यप्रसिद्धतम: कूटनीतिज्ञोऽभवत्। तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च। राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति। चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत्। बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म। सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत्। अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत्। चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत्। एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत्। अपूपम् तस्य कोणात् खाद" इति। तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत्। ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत्। विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति।