कौआ पर संस्कृत निबंध (Essay on Crow in Sanskrit)
कौआ पर संस्कृत निबंध: काकः भारतदेशे प्रायः सर्वत्र दृश्यते। काकः (Crow) एकः प्रज्ञातः खगः। सः वृक्षेषु वसति। दक्षिणामेरिकाखण्डं विहाय अन्यखण्डेषु वसति। प्रायः सामान्यतया यत् वयं पश्यामः सः गृहकाकः सम्पूर्णकृष्णवर्णं काकं वनकाकः इति वदन्ति।एतस्य नामान्तरं वायसः इति। काकस्य वर्णः कृष्णः भवति। तस्य वर्णः तस्य विशेषता। तस्य द्वौ पक्षौ कृष्णवर्णौ। तस्य नेत्रयोः वर्णः अपि कृष्णः। तस्य चञ्चुः कृष्णवर्णा।तस्य चञ्चु अतीव दृढः अस्ति। तस्य दृष्टिः अतीव तीक्ष्णा अस्ति।
काकः शाकाहारी मांसाहारी च अस्ति। सः सर्वान्नभक्षकः (omnivores)। कदाचित् सः पर्णानि खादति। कदाचित् सः लघून् पशून् खादति। मांसं रोटिकां च काकस्य प्रियं भोजनम्। सः मलिनानि वस्तूनि खादित्वा परिवेशं स्वच्छं करोति। पर्वते वा खिडकीयां वा उपविश्य 'काव-काओन' करोति। काकः अतीव चतुरः पक्षी (Bird) अस्ति। सः सर्वदा सावधानः भवति। किञ्चित् शब्दे सः दूरं गच्छति। काकवाक् दुर्ध्वन्यते तथापि काकः उपयोगी पक्षी।
काकस्य कर्कशवाणी तस्य अन्यं वैशिष्ट्यम्। काकस्य पिकस्य च वर्णः एकः एव। तयोः भेदः वाणी। वसन्ते पिकः (Cuckoo) सुन्दरं कूजति। तदा काकस्य सत्यं स्वरूपं ज्ञायते। काकः भारतीय-संस्कृत्याः महत्त्वपूर्णाः भागाः सन्ति। अन्तिमसंस्काराणां समये यदा काकः पिण्डं खादति, तदा आत्मा शान्तिं प्राप्नोति, इति मन्यते। यदा काकः आगच्छति, तदा जनाः कथयन्ति, “अधुना अतिथिः (Guest) आगमिष्यति” इति। काकस्य धर्मे अपि महत्त्वपूर्णं स्थानम् अस्ति।