हाथी पर संस्कृत निबंध। Sanskrit Essay on Elephant
हस्ती एकः महान् पशुः अस्ति। अस्य शरीरम् अति विशालं भवति। हस्तिनः एकं विशिष्टं अंगम भवति। तस्य नाम शुण्डा अस्ति। शुण्डया सः बहूनि कार्याणि करोति। शुण्डया वृक्षाणां शाखाः त्रोटयति। शुण्डया सः खाद्यवस्तूनि मुखे निक्षिपति। शुण्डया जलं पिबति। हस्ती हस्तस्य सर्वं कार्यं शुण्डया करोति।
हस्ती स्वभावेन अतीव धीरः तथा गम्भीरः भवति। सः चंचलः न भवति। सः महाबलवान् अपि अस्ति परन्तु बलस्य अभिमानं न करोति। हस्तिनः दन्ताःअपि द्विविधाः भवन्ति। अनेके दन्ताः मुखस्य आभ्यन्तरे एव तिष्ठन्ति। परं द्वौ दन्तौ मुखाद् बहिः तिष्ठतः।
हस्ती एकः अतीव दर्शनीयः पशुः अस्ति। अनेके हस्तिनः बहूनि कौतुकानी अपि कुर्वन्ति। हस्तिनां विशालं शरीरं, गम्भीरं स्वभावं, मंदम्-मंदम् गमनम्, अनुशासन-पालनं च दृष्ट्वा मनसी महती प्रसन्नता भवति।
0 comments: