Friday, 8 November 2019

विद्यालयस्य वार्षिकोत्सव: संस्कृत निबंध - Sanskrit Essay on Annual Day

Sanskrit Essay on Annual Day : In this article, We are providing विद्यालयस्य वार्षिकोत्सव: संस्कृत निबंध for class 6, 7, 8, 9, 10, 11 and 12. Students can Use Essay on Annual Day in Sanskrit Language to complete their homework.

विद्यालयस्य वार्षिकोत्सव: संस्कृत निबंध - Sanskrit Essay on Annual Day

प्राय: प्रतिवर्षे विद्यालया: स्वकीयां संस्थापना तिथिं महता उत्साहेन समारोहण च संस्मरन्ति । पूर्व वर्षे कृत कर्मणाम् उपार्जित फलानां संग्रहीत-धनानाम् विवरणञ्च जनता-समक्ष प्रस्तुतं कुर्वन्ति । विद्यालय संस्थापका: अस्मिन् अवसरे संस्थाया: उन्नत्या गौरवेण च हर्षिता: दृश्यन्ते। प्रधानाचार्य महोदया: स्व अध्यापकैः सह विविधान् कार्यक्रमान् दर्शकाणां समक्षे आरम्भयन्त: दृश्यन्ते, छात्राश्च द्विगुणोत्साहेन निज-निजाध्यापक संकेतेन कार्य कुर्वन्त: अवलोक्यन्ते ।

अस्मिन् वर्षे विद्यालयस्य वार्षिक महोत्सवासरे लब्ध प्रतिष्ठा: आंगल विद्या विशारदा: मेरठ विश्व विद्यालयस्य पूर्व उपकुलपतय: डाक्टर रमेश मोहन महोदया: सभापति पदं अलञ्चक्रुः । अस्मिन अवसरे बहव: नगर प्रसिद्धा: विद्वांसः, वैभवशालिनः, प्रबन्धक मण्डल सदस्याः एकत्रिता: आसन् ।

कार्यक्रम-आरम्भ वेलायाम् छात्रैः सुमधुरेण स्वरेण स्वागत गीतम, तदनन्तंर शिशूनां कविता पाठं, भाषणं, संगीतञ्च अतीव मनोहरं आसीत् । अस्मिन् अवसरे सभापति महोदयानां सारगर्भित भाषणमपि अभवत् । कार्यक्रमान्ते पारितोषिक वितरण कार्य सम्पन्नमभूत् । केचन क्रीड़ा कुशला:, केचन शिक्षा कुशला: केचन अनुशासन कुशला: छात्रा: पारितोषिकम् प्राप्तवन्तः ।

समारोहावसाने मिष्टान्नम् फलानि च वितरितानि । प्रधानाचार्येण एकस्य दिवसस्य अवकाश: घोषितः । तदनन्तरं छात्रा: सहर्ष स्वगृहं प्रस्थिताः ।

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: