Saturday, 2 November 2019

अस्माकं यात्रा संस्कृत निबंध। Asmakam Yatra Essay in Sanskrit

Asmakam Yatra Essay in Sanskrit : In This article, We are providing अस्माकं यात्रा संस्कृत निबंध for Students and teachers.

अस्माकं यात्रा संस्कृत निबंध। Asmakam Yatra Essay in Sanskrit

काश्मीरं भारतस्य नन्दनवनम्। न केवलं भारतवासीया एव, अपि तु परकीयाः प्रवासिनः अपि तत्सौंदर्य द्रष्टुम् सोत्कण्ठं आयान्ति इति आबाल्यात् श्रुतं पठितं च आसीत्। तेन गतवसन्त-ऋतौ यदा काश्मीरदर्शनस्य अवसरः सम्प्राप्तः तदा अत्यानन्दिता अभवम् अहम्। मासपूर्वम् एव जम्मू-तावी-एक्प्रेसमध्ये आसन् शयनकृते आरक्षणं कृतम् आसीत्। तेन प्रवासविषये तादृक् चिन्ता न आसीत्। प्रारम्भे प्रसन्नवातावरणात् तथा अत्युत्साहकारणात् वार्तासम्भाषणे, विविधानां रुचिकराणां पदार्थानाम् आस्वादने च पूर्वाह्नसमयः शीघ्रं व्यतीतः। किन्तु शनैः शनैः वर्धमानातपकारणाद् वयं निर्विण्णाः निरुत्साहाश्च संजाताः। 'जम्मू-तावी' ईदृक्-वेगवती, यत् विना स्खलितं चलितुमपि न शक्यमासीत् , पठनस्य पुनः का कथा ? शनैः शनैः विविधान् प्रदेशान् , सस्यशामलानि क्षेत्राणि पश्चाद् विहाय वयम् अग्रे धाविताः। राजधानीदिल्लीदर्शने अस्माकं कुतूहलम् आसीत्। किन्तु रात्रौ द्वि-त्रि-वादने निद्राधीनतया तत्कुतूहलम् अपूरितमेव। अपरेयुः प्रातः प्रायः सार्धदशवादने जम्मू-तावीस्थानकम् संप्राप्ता वयम्। चिरप्रवासेन क्लान्तत्वात् अस्माभिः तस्मिन् दिने जम्मूनगरे एव वास्तव्यं कृतम्। तत्र तु 'रघुनाथमन्दिरं' विहाय न किमपि परदर्शनीयम् आसीत्। अपरेयुः प्रभाते एव बसयानेन अस्माकं श्रीनगरं प्रति प्रस्थानं कर्तव्यम् आसीत्। एष मार्गः अतीव विषमः, सुदुरः, द्वादशहोरावधिः। अस्माकं मनांसि किंचित् भयाकुलानि एव आसन्। केन्तु अहो आश्चर्यम्। तत्र पथि यत् अपूर्व निसर्गसौंदर्य दृष्टम् , तत् तु कल्पनातीतम् एव। निरन्तरा एकतः गगनं चुम्बन्तः अत्युच्चाः गिरयः, अन्यतः अतिप्रगाढ़ाः दर्यः, इतस्ततः चारुगुलाबपुष्पाणि च। अतिदीर्घः, भुवः अधस्तात् गच्छन् 'जवाहरसुरङ्गामार्गः' अपि अस्माभिः व्यतीतः। शनैः शनैः विलो-देवदारु-सफेदाइत्यादिभिः अदृष्टपूर्वैः वृक्षः आकृष्टाः वयम्। मार्गे दृष्टानि कश्मीरजक्षेत्राणि अपि दृष्टिं बध्नन्ति स्म। प्रदोषान्धःकारे श्रीनगरं प्रविष्टाः वयम्। श्रीनगरे एव वास्तव्यं कृत्वा, प्रतिदिनम् एकैकं निसर्गस्थानं द्रष्टुम् निश्चितम् अस्माभिः अपरेद्युः श्रीनगरस्थानि शालिमारनिषादादीनि रमणीयानि उद्यानानि, दालवुलर प्रभृतीनि अतिविशालानि सरांसि, श्रीमच्छंकराचार्याणां मन्दिरं, झेलमनद्याः मनोहरः उद्गमः, इत्यादीनि रम्यस्थलानि आपरितोषं दृष्टानि। दालसरोवरे 'शिकारा' नौकानयनानन्दः अपि अनुभूतः अस्माभिः। 'चिनार' सौन्दर्येण तु अहम् उन्मत्ता एव अभवम्। तदनन्तरम् अनुदिनं 'गुलमर्ग-सोनमार्ग - पेहेलगाम' -प्रभतीनि नितान्तरमणीयानि स्थलानि दृष्टानि। अश्वारूढा भूत्वा, हिमवृष्टौ गुलमर्गतः खिलनमर्ग प्रति गमनं एकः अपूर्वः अनुभवः आसीत्। 'पेहेलगाम' क्षेत्रं तु रमणीयतायाः परमावधिः इत्यस्मिन् न किमपि अत्युक्तिः। ईदृक् दुग्धधवलं, शीतलं, रुचिकरं जलं कदापि न दृष्टपूर्वम्। सत्यमेव निसर्गसौंदर्येण तथा मानवसौन्दर्येणापि ईदृक् रमणीयं काश्मीरक्षेत्रम् यत् मुम्बापुरीं प्रत्यागमनं प्रति निरुत्साहितानि एव अस्माकं मनांसि।

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: