Essay on Goddess Saraswati in Sanskrit : In This article, We are providing सरस्वती पर निबंध संस्कृत में who is the Goddess of wisdom and ...
Essay on Goddess Saraswati in Sanskrit : In This article, We are providing सरस्वती पर निबंध संस्कृत में who is the Goddess of wisdom and knowledge. This essay is also searched as Essay on Sharda in Sanskrit Language.
सरस्वती पर निबंध संस्कृत में - Essay on Goddess Saraswati in Sanskrit
या देवी सर्व भूतेषु बुद्धिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।
सरस्वती विद्याया: देवता। एषा देवी पद्मासने उपविशति। तस्याः हस्ते च वीणा अस्ति। सा शुभ्रवस्त्रावृता। तस्या: वाहनं मयूरः । कवय: तां वर्णयन्ति। सा सर्वेषां अज्ञानं हरति, सर्वेभ्य: च ज्ञानं यच्छति।
'शारदा' इति सरस्वत्याः अपरं नामधेयम् । ब्रह्मादिभिः सुरगणैः सा नित्यं स्तूयते । वयं अपि तां प्रार्थयामहे, " हे सरस्वती देवी विद्याबुद्धिं च देहि। अस्माकं अज्ञानं नाशय ज्ञानं च यच्छ। सा सदा मम मुखे अस्तु।
शुभ्रकमलासने सा उपविशति । पुस्तकं, रुद्राक्षमाला अपि तया धार्यते । वीणावादिनी सरस्वती वयं परिचिता। तस्या: कृपाप्रसादेन कवयः प्रतिभा आप्नुवन्ति। ब्रह्मादिभिः सुरगणैः सा नित्यै स्तूयते । सा मम जिव्हाग्रे अस्तु ।
माँ शारदा पर संस्कृत निबंध - Essay on Sharda in Sanskrit
सरस् नाम वाणी। सा वाणी यस्या: समीपे अस्ति सा सरस्वती । सरस्वती विद्याया: देवता । अत: विद्यारम्भे सर्वे छात्रा: तां नमन्ति -
नमस्ते शारदे देवि वीणापुस्तकधारिणि ।
विद्यारम्भं करिष्यामि प्रसन्ना वरदा भव ।।
एतस्या: देव्या: वर्ण: धवल: । तस्या: वस्त्रम् अपि शुभ्रम् । तस्या: हस्ते वीणा शोभते । श्वेतकमले सा विराजते । ब्रह्मादय: देवा: अपि तां नमन्ति । करुणामसृणै: कटाक्षैः सा सर्वान् पूजकान् कृतार्थान् करोति । सर्वेषु विद्यालयेषु सरस्वत्या: प्रतिमा अस्ति। विद्याविषयकस्य कार्यक्रमस्य आरम्भ: सरस्वतीपूजनेन भवति। करुणाकटाक्षैः सरस्वती माम् अपि अनुगृह्णातु।
COMMENTS