Nitishatkam Essay in Sanskrit : In This article, We are providing नीतिशतकम् पर संस्कृत निबंध for Students and teachers. नीतिशतकम् पर स...
Nitishatkam Essay in Sanskrit : In This article, We are providing नीतिशतकम् पर संस्कृत निबंध for Students and teachers.
नीतिशतकम् पर संस्कृत निबंध। Nitishatkam Essay in Sanskrit
राजा भर्तृहरिः स्वयं पण्डितः कविः विरागी च इदं ग्रन्थं प्रणीतवान् इति सर्वैः संमन्यते। न तु तस्य कालः स्थानं वा सप्रमाणं निश्चितमद्यापि। शतकत्रयं तेन विरचितं शृङ्गारशतकं, नीतिशतकं, वैराग्यशतकं च इति संप्रदायमतम् । वैराग्यशतककविन शृङ्गारशतककर्ता इत्यपि विवादः पण्डितेषु श्रूयते।
नीतिशतके शतावधिश्लोकाः नीतिमधिकृत्य। यद्यपि नीतिशब्देन प्रायः राजनीतिरेव अभिप्रेता तथापि अस्मिन् ग्रन्थे नीतिशब्देन समाज-आचार-रीतिरपि अभिप्रेता। सा एव श्लोके श्लोके पद्ये पद्ये च चित्रिता।
बहूनि वृत्तानि बहवो अलंकाराश्च प्रयुक्ताः। शार्दूलविक्रीडितवृत्तस्य प्राधान्यम्। तथा अप्रस्तुतप्रशंसा, या अन्योक्तिरित्यपि उच्यते सा अलंकारेषु प्रधाना। प्रतिपद्यं स्वतंत्र एव विषयः । स्वतन्त्र एव अनुभवः। जीवने ये अनुभवा महार्हाः तेषां माला एव अत्र ग्रथिता।
एकस्मिन् पुष्पे कविरुगिरति। साहित्यसंगीतकला-विहीनः साक्षात्पशुः पुच्छविषाणहीनः इति। अन्यत्र,-'आरभ्यते न खलु विघ्नभयेन नीचैः प्रारब्धविघ्नविहता विरमन्ति मध्याः । विघ्नः पुन पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजनाः न परित्यजन्ति' इति कार्यमनुलक्ष्य उत्तमपुरुषलक्षणं निर्दिश्यते। 'एते सत्पुरुषाः परार्थघटकाः स्वार्थ परित्यज्य ये' इत्यत्र स्वार्थपरार्थविषयानुसारेण उत्तममध्यमनीचवर्गीकरणम् अङ्गीकृतं जनानाम् । 'उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः ' इत्यत्र उद्यमशीलस्य सिद्धिरिति प्रतिपादितं, तदन्यत्र दैवबलं वर्णितम्-'यदि चातको जलं न लभते मेघस्य किं दूषणम्' इत्यादिवर्णने।
दशविषया अत्र उपन्यस्ता इति कविसंकेतः। अज्ञः, प्राज्ञः, सत्पुरुषः, दुर्जनः, इत्यादिविषयाः। कविकृतं वर्णनं तु उक्तिवेदाध्यात् प्रमोदावहम् । वैचित्र्याच्च सुखावहम्।
एकेन नीतिशतकग्रन्थेन एव अयं कविः अमरः अभविष्यत् इति परिशीलनात् प्रतीयते।
COMMENTS