ईद पर संस्कृत निबंध। Sanskrit Essay on Eid
भारतदेस्य
परम्परा धर्मप्रधाना। देशोSस्मिन् नाना धर्माः सन्ति। येन प्रकारेण हिन्दूनां मुख्योत्सवाः
दीपावली-रक्षाबंधन-दुर्गापूजा-प्रभृतयः सन्ति तथैव महम्मदीयानाम् उत्सवेषु
सर्वोत्तमः 'ईद' इति मन्यते। मूलतः उत्सवोSयं तपस्यायाः उपासनायाश्च पर्व
मन्यते। सामाजिक-मानवीय-सद्भावनायाः दृष्टयाः अपि अत्याकर्षकमिदं पर्व। अस्मिन
पर्वणि महम्मदीयाः रमजानमासे चन्द्रमसं विलोक्य 'रोजा' इति व्रते
प्रारभंते। अस्यां रोजायाम् पूर्णं दिनं व्रतधारिणः उपवासं कुर्वन्ति। पुनः
संध्याकाले सम्मिल्य 'इफ्तार' नामकं उपवासभंगं कुर्वन्ति।
मासस्यान्तिमे शुक्रवारे ते रमजानस्य मासावसाने च संध्यायां पुनः
चन्द्रं दृष्टवा अन्येद्युः प्रातःकाले ईदस्य 'नमाज' इति प्रार्थनां
कुर्वन्ति। ईदमहोत्सवस्य दिने जनाः नवानि वसनानि धारयन्ति। मधुराणि पक्वान्नानि च
मिलित्वा खादन्ति। पक्वान्नेषु सेवई प्रधाना। दुग्धयुक्तानि अन्यानि वस्तूनि च
खाद्यन्ते। अवसरेSस्मिन प्रायः सर्वे जनाः निर्धनाः धनिकाश्च यथाशक्ति दीनार्तानाम्
सेवार्थं दानं कुर्वन्ति। तदेव दानं जकात इति फ़ितर इति च कथ्यते।
वर्षे वर्षे समागतस्य ईदमहोत्सवस्य प्रतीक्षा सर्वैः क्रियते।