किसान पर संस्कृत में निबंध। Essay on Farmer in Sanskrit
ये कृषिं कुर्वन्ति ते कृषकाः कथ्यन्ते। अस्माकं देशः कृषिप्रधानः देशः अस्ति। अत्र कृषकाणां संख्या अधिका वर्तते। कृषकाः कृषिं कृत्वा जीवनोपयोगीनि बहूनि वस्तूनि उत्पादयन्ति। तैः एव वस्तुभिः सर्वे जनाः जीवन्ति। अतः समाजस्य जीवनं धारणं च कृषकाणां एव उपरि निर्भरं वर्तते।
कृषिः महता परिश्रमेण भवति। अत एव कृषकाणां दिनचर्या अतीव श्रममयी भवति। तेषां जीवने विश्रामाय मनोरंजनाय वा अतीव अल्पः अवसरः लभ्यते। कृषकाः प्रातःकालात् आरभ्य सायंकालपर्यन्तं कठिनं परिश्रमंकुर्वन्ति। रात्रौ अपि ते पूर्णरूपेण विश्रामाय शयनाय का समयं न लभन्ते।
कृषकाः बहूनि कष्टानि सहन्ते तथापि तेषां कार्यस्य समाप्तिः न भवति। एतादृशं घोरं परिश्रमं कुर्वणाः अपि कृषकाः सुखिनः न सन्ति इति महतः दुःखस्य विषयः वर्तते।
0 comments: