एकता पर संस्कृत निबंध। Essay on Unity in Sanskrit
मतभेदस्य विरोधस्य वा अभावः एकता इति उच्यते। एकतायाः अपरं नाम "ऐक्यं सङ्घटनं" वा इत्यपि वर्तते। मनुष्याणां सांसारिकजीवनस्य कृते एकता महान् लाभकारी गुणः अस्ति। यदि संसारे मनुष्येषु एकता न स्यात् तर्हि तेषां एकदिनस्यापि जीवनं कठिनं सम्पद्येत। एकतायां महती शक्तिः भवति। यत् कार्यं एकेन न कर्तुं शक्यते तद् बहूनां सम्मिलितेन समुदायेन सुगमतया एव भवति।
वर्तमानसमये एकतायाः महान् अभावः अस्ति। परिवारे समाजे देशे तथा सम्पूर्णे संसारे सर्वत्रैव अनेकतायाः, मतभेदस्य च भयंकरः झंझावातः प्रवाहमानः दृश्यते। एतस्य प्रधानं कारणं तु स्वार्थपरता एव अस्ति। सर्वे स्वकीयमेव हितं पश्यन्ति न अन्येषाम्। अतः एकतायाः स्थापनाय परस्परं स्नेह-सौहार्द-वर्धनाय च स्वार्थसाधनेन सहैव परेषामपि स्वार्थ-रक्षणाय उपरि ध्यानदानं परमावश्याकं वर्तते।
0 comments: