समय का महत्व संस्कृत निबंध। Samay ka Mahatva in Sanskrit
समयस्य समुचिते रूपे उपयोगः एव समयस्य सदुपयोगः कथ्यते। समयस्य सदुपयोगः मानवसमाजस्य हितसाधकेषु साधनेषु साधनं वर्तते।संसारे बहूनि वस्तूनि बहुमूल्यानि सन्ति परं तेषु सर्वापेक्षया बहुमूल्य वस्तु समयः एव वर्तते। यतः अन्यानि वस्तूनि विनष्टानि अपि पुनः लब्धुं शक्यन्ते परन्तु व्यतीतः समयः केनापि उपायेन पुनः लब्धुं न शक्यते। विद्या विनष्टा पुनः अभ्यासेन लब्धुं शक्यते, धनं विनष्टं पुनः उपार्जनेन लब्धुं शक्यते, यशः विनष्टं पुनः सत्कर्मणा उपार्जयितुं शक्यते परं विनष्ट: समयः सहस्त्रैअपि प्रयत्नैः दुर्लभः एव।
अतएव समयः सर्वाधिकं बहुमूल्यं वस्तु मन्यते।
अस्माकं भारतीयानां कृते अयं राष्ट्रनिर्माणस्य कालः वर्तते। अस्माकं स्कन्धेषु राष्ट्रनिर्माणस्य महान् भारः वर्तते। अस्मिन् समये तु विशेषरूपेण अस्माभिः समयस्य सदुपयोगे ध्यानं दातव्यं येन शीघ्रतया राष्ट्रस्य समुन्नतिः स्यात्। अस्मिन् विषये छात्रैः विशेषरूपेण ध्यानं देयम्। यतः ते एव भारतस्य भाविनः कर्णधाराः तथा भाग्यविधातारः सन्ति।
Nice
ReplyDelete