भारतवर्ष पर संस्कृत में निबंध : भारतभूमिः अस्माकं मातृभूमिरस्ति। सा अस्माकं प्राणैरपि प्रिया अस्ति। भारतस्य अन्यत् नाम 'हिन्दुस्थानम्’ अपि वर्तते। पुरा अस्य प्राचीन नाम' आर्यावर्तः आसीत्। अत्र दुष्यन्तो नाम राजा बभूव। तस्य महान् वीरः पुत्रः भरतः' नामासीत्। तस्य नाम्नां अस्य देशस्य नाम 'भारत' जातम्। 'भरतस्येदं भारतम्' इति कथ्यते। भारतवर्षस्य स्थानं विश्वस्य सर्वेषु देशेषु प्राचीनतम, विशिष्टतमञ्च अस्ति। भारत देश: अतीव विस्तृतः अस्ति। अस्य उत्तरस्यां दिशि विशालः, उन्नतः च हिमालयः विद्यते, यः प्रहरीव भारतं रक्षति। अस्मात् पर्वततात् अनेकाः नद्यः वहन्ति, देशस्य भूभागं सिञ्चन्ति च।
भारतवर्ष पर संस्कृत में निबंध
भारतभूमिः अस्माकं मातृभूमिरस्ति। सा अस्माकं प्राणैरपि प्रिया अस्ति। भारतस्य अन्यत् नाम 'हिन्दुस्थानम्’ अपि वर्तते। पुरा अस्य प्राचीन नाम' आर्यावर्तः आसीत्। अत्र दुष्यन्तो नाम राजा बभूव। तस्य महान् वीरः पुत्रः भरतः' नामासीत्। तस्य नाम्नां अस्य देशस्य नाम 'भारत' जातम्।
'भरतस्येदं भारतम्' इति कथ्यते। भारतवर्षस्य स्थानं विश्वस्य सर्वेषु देशेषु प्राचीनतम, विशिष्टतमञ्च अस्ति। भारत देश: अतीव विस्तृतः अस्ति। अस्य उत्तरस्यां दिशि विशालः, उन्नतः च हिमालयः विद्यते, यः प्रहरीव भारतं रक्षति। अस्मात् पर्वततात् अनेकाः नद्यः वहन्ति, देशस्य भूभागं सिञ्चन्ति च। अस्य दक्षिणस्यां दिशायां सागर: स्वजलैः अस्य चरणौ सतत् प्रक्षालयति। भारतवर्ष प्रकृतेः रम्यं स्थानं वर्तते। अस्य मनोहरं रूपं जनानां चेतांसि आकर्षति। अत: प्रतिवर्षं अत्र अनेके पर्यटकाः विदेशादपि आगच्छन्ति। आगरास्थितः ‘ताजमहल: सर्वेषां पर्यटकानामाकर्षण अस्ति।
भारतवर्षे विभिन्नजातीयाः, विभिन्नधर्मसम्प्रदायानां जना: वसन्ति। सर्वे परस्परं स्नेहेन व्यवहरन्ति। अस्माकं देशस्य सर्व सैनिकाः देशरक्षणाय सदा तत्परा: दृश्यन्ते।
अस्मार्क देश: देवपुरुषेभ्योऽपि प्रियः अस्ति। अत्रैव श्रीराम, कृष्ण, विवेकानन्द दयानन्दादयः अजायन्त। महात्मा गाँधी, तिलक-जवाहर लाल नेहरू प्रभृतयः महापुरुषाः भारतभूमेः एव सुताः। 'अब्दुल कलाम' नाम वैज्ञानिकः, सत्पुरुषः च भारतस्य एव सुपुत्रः अस्ति। एतादृशानां महापुरुषाणां प्रयत्नैरेव अस्माकं देशः उन्नतिपथं प्रयाति। एवंविधा: महापुरुषाः ‘भारतीयाः सन्ति एतत् सौभाग्यं खलु।
वयमपि भारते उत्पन्नाः अभवाम। वयम् अत्र वसाम; अत: अस्माकं एतत् परम कर्तव्यं यत् मनसा, वाचा, कर्मणा भारतं रक्षेम, अस्य उन्नतिं च कुर्याम।
COMMENTS