Letter to Mother From Daughter in Sanskrit : In This article, We are providing माता को पुत्री द्वारा पत्र संस्कृत में for Students and teachers.
माता को पुत्री द्वारा पत्र संस्कृत में - Letter to Mother From Daughter in Sanskrit
कानपुर नगरम्
१०.११.९३
मातृश्रीचरणसन्निधौ,
सादरं वन्दनानि।
भवत्याः आशीर्वादपत्रं प्राप्तम् । पत्रं दृष्ट्वा बहु आनन्दः अभवत् । भवत्याः सूचनानुसारं मम आरोग्यरक्षणमपि सम्यक् पालयन्ती अस्मि ।
आगामिमासस्य द्वितीयसप्ताहे अस्माकं वार्षिकी परीक्षा भविष्यति । परीक्षासमनन्तरमेव दिनत्रयस्य शैक्षणिकप्रवासः अस्ति । प्राध्यापकैः सह वयं सर्वे गच्छामः । प्रवासं समाप्य यावच्छीघ्रं गृहं प्रति आगमिष्यामि।
एतं विषयं पूज्यपितरं सुचयतु । मम नमस्कारं च सूचयतु । प्रियाय अनुजाय किशोराय आशिषः ।
इति प्रियपुत्री
(...............)
Related Essays :
0 comments: