Saheli ko Patra in Sanskrit : In This article, We are providing सहेली को पत्र संस्कृत में for Students and teachers.
सहेली को पत्र संस्कृत में। Saheli ko Patra in Sanskrit
पुण्यपत्तनतः
दि० ...........
प्रियसखि माधवि,
सस्नेहं नमस्ते।
गतसप्ताहे एव तव स्नेहपूर्णं पत्रं प्राप्य नितरां प्रसन्नाऽस्मि। अनेकवारं तस्य उत्तरं लिखितुम् ऐच्छम् । किन्तु बहुकार्यव्यापृततया अवसरः एव मया न लब्धः। त्वं जानासि एव यत् भगिन्याः शकुन्तलायाः विवाहार्थं वयम् अत्र संप्राप्ताः। अस्माकं बहवः आप्ताः सम्बन्धिनश्च समागताः अत्र। अतः तेषां स्वागतं, तैः साधं प्रतिदिनं विविधस्थानगमनं, विवाहार्थम् अनेकवस्तूनां क्रयणम् च इत्यादिभिः यत्सत्यं काल: वेगेन धावति एव इति अहं मन्ये।
अन्यत् सर्व कुशलम् अस्ति। तत्रापि सर्वं कुशलं भवेत् इति अहम् आशासे। तव मातृपितृभ्याम् नमः।
भवत्स्नेहाकांक्षिणी
रागिणी।
Very nice
ReplyDelete