Essay on Durga Puja in Sanskrit : In this article, We are providing दुर्गा पूजा पर संस्कृत निबंध for class 6, 7, 8, 9, 10, 11 and 12. D...
Essay on Durga Puja in Sanskrit : In this article, We are providing दुर्गा पूजा पर संस्कृत निबंध for class 6, 7, 8, 9, 10, 11 and 12. Durga Puja is also known as Durgotsava. Students can Use This Long Essay on Allahabad in Sanskrit Language to complete their homework.
दुर्गा पूजा पर संस्कृत निबंध - Essay on Durga Puja in Sanskrit
उत्सव बहुले भारते जना: उत्सवै: यत्र मानसिक परितोषम् मनोरंजनम्, शान्तिम्, विश्रान्तिम् च प्राप्नुवन्ति तत्रैव आध्यात्मिकं लाभं चापि लभन्ते। एते उत्सवा: महोत्सवाश्च बहुविधा: भवन्ति। केचन सामाजिक उत्सवाः, केचन राजनैतिक उत्सवा: केचन धार्मिक महोत्सवाः अस्माकम् दृष्टिपथम् आयान्ति।
एतेषु महोत्सवेषु दुर्गापूजा महोत्सव: अभीष्ट फलदायकः, दैविक, दैहिक, भौतिक ताप हारकः, शत्रु विनाशकः, समृद्धिदायकः विख्यातः अस्ति। भक्ता: नवादिनानि वृतम् धारयन्ति साधनाम् च साधयन्ति। महामायां जगदम्बिकाम् प्रति एषाम् परम गहनो विश्वास: यत्-
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ।
अखिले भरते भक्त जना: श्रद्धा-भक्ति-भावेन नव चण्डिका: पूजयन्ति। दुर्गा पूजा महोत्सव: शरद् ऋतौ भवति आश्विन मासस्य शुक्ले पक्षे प्रतिपदायाम् अस्य महोत्सवस्य शुभारम्भो भवति। कथितम् महामायया स्वेन श्रीमुखेन
शरत्काले महापूजा, क्रियते या च वार्षिकी।
तस्याम् ममैतन्महात्म्यं श्रुत्वा भक्ति समन्वितः ।।
नवदुर्गायाम् प्रतिदिनम् साधका: भगवती मूर्ति सम्मुखे आसन बद्धो भूत्वा तद्गतेन मनसा स्व साधनाम् कुर्वन्ति, धूप-दीपम्, दर्शयन्ति, सपुष्पम् नारिकेलं समर्पयन्ति, सादरम् नैवेद्यम् निवेदयन्ति, मुख शुद्धयर्थम् एला लवंग कर्पूरयुक्तं ताम्बूलम् अर्पयन्ति। प्रतिदिनम् दुर्गासप्तशत्या: पाठम् कुर्वन्ति कारयन्ति च। गीत-वादनादिभिः नत्यन्ति, गायन्ति। सर्वाबाधा विमुक्त्यर्थम धन धान्य प्राप्तेर्थं रिपूणाम् क्षयार्थम्, उपसर्गाणाम् शमनार्थम्, उग्रासु ग्रह पीडासु शान्त्यर्थम् कर बद्धाः भक्ताः जगदम्बिकाम् स्तुवन्ति। प्रार्थयन्ति च-
स्तुता सुरैः पूर्वमभीष्ट संश्रयात्,
तथा सुरेन्द्रेण दिनेषु सेविता।
करोतु सा न: शुभहेतुरीश्वरी,
शुभानि भद्राणि अभिहन्तु चापदः।
बंगाल प्रान्ते असौ महोत्सवः सर्वेषु महोत्सवेषु प्रधान महोत्सव: भवति। बंग प्रान्तीयानां गृहे-गृहे दुर्गाया: मूर्तिस्थापनं भवति। ते सर्वे वृतोपवासादिभिः स्वकीयां इष्टदेवीम् भगवतीम् महाकालिकाम् अर्चयन्ति । नवम्याम् दशम्याम वा देव्या: मण्मयीं मूर्तिम् शंखध्वनिभिः घण्टा रवै: मृदंग वादनै: आपूर्यमाणे मंगलमये वातावरणे जले विसर्जयन्ति। यस्मिन् दिवसे मूर्ति विसर्जनम् भवति तस्मिन दिवसे भक्ति भावाप्लाविता: जनाः सपरिवारम् जलाशये गच्छन्ति प्रणमन्ति च महामायाम्।
अनेन महोत्सवेन यत्र पारमार्थिको: लाभः भवति तत्रैव जनानाम् मनोरंजनम् अपि भवति। अस्मिन् पर्वे शिल्पिन: अनेकानि बहुविधानि विचित्राणि वस्तूनि समुपकल्पयन्ति। अत: अयम् शारदीय महोत्सवः सर्वथा अनुकरणीय: दर्शनीयः प्रशंसनीयश्च।
COMMENTS