Vedo ka Mahatva in Sanskrit - वेदानां महत्वम् : भारतीय संस्कृतेः अपूर्वः कोशः भारतीयानाम् अमूल्यः निधिः, हिन्दूनां परम प्रमाणं वेदाः। एते प्राचीनतमाः ग्रन्थाः सन्ति। वेदाः चतुर्णां पुरुषार्थानां साधनमेव। संसारे अनेके धर्माः सन्ति, ते वेदात् एव समुद्भूताः इति मन्यते। अतएव उक्तम्, ‘वेदोऽखिलो धर्ममूलम्।‘ भूतं भव्य भविष्यच्च सर्वं वेदात् प्रसिध्यति। उपनिषदाः अपि प्राचीना: सन्ति। किन्तु उपनिषत्सु यत् ज्ञानं प्राप्यते तत् वेदादेव। सर्वासां विद्यानां, सर्वासां कलानाम् उत्पतिस्थानं वेदाः एव। अतः वेदानाम् आदर न केवल भारतीयाः अपि तु पाश्चात्या: अपि कुर्वन्ति। एषां निन्दां कोऽपि कर्तुं न शक्नोति।
Vedo ka Mahatva in Sanskrit - वेदानां महत्वम्
भारतीय संस्कृतेः अपूर्वः कोशः भारतीयानाम् अमूल्यः निधिः, हिन्दूनां परम प्रमाणं वेदाः। एते प्राचीनतमाः ग्रन्थाः सन्ति। वेदाः चतुर्णां पुरुषार्थानां साधनमेव। संसारे अनेके धर्माः सन्ति, ते वेदात् एव समुद्भूताः इति मन्यते। अतएव उक्तम्, ‘वेदोऽखिलो धर्ममूलम्।‘
भूतं भव्य भविष्यच्च सर्वं वेदात् प्रसिध्यति। उपनिषदाः अपि प्राचीना: सन्ति। किन्तु उपनिषत्सु यत् ज्ञानं प्राप्यते तत् वेदादेव। सर्वासां विद्यानां, सर्वासां कलानाम् उत्पतिस्थानं वेदाः एव। अतः वेदानाम् आदर न केवल भारतीयाः अपि तु पाश्चात्या: अपि कुर्वन्ति। एषां निन्दां कोऽपि कर्तुं न शक्नोति।
वेदाः ‘अपौरुषेयाः’ सन्ति। ते मानवै नः निर्मिताः। तेषामुत्पत्ति विषये इति मन्यते, यत् साक्षात् परमेश्वरेण ऋषिभ्यः वेदज्ञानम् उपदिष्टम्। एवं वेदानां रचयिता स्वयं परमात्मा अस्ति।
वेदाः चत्वारः सन्ति-ऋग्वेदः, सामवेदः, यजुर्वेदः तथा अथर्ववेदः। वेदेषु सर्वेषां विषयानां वर्णनं लभ्यते। अतः कथ्यते, वेदः ज्ञानमयो विज्ञानमयो वर्तते।
वेदेषु वर्णाश्रमव्यवस्था वर्णिता। ब्रह्मचर्य, गृहस्थ-वानप्रस्थ-संन्यासादिनां चतुर्णां आश्रमाणां वर्णनं वेदेषु प्राप्यते। प्राचीनकाले वेदाध्ययनम् आवश्कम् आसीत्। वेदमन्तोच्चारणेन ब्राह्मणाः देवपूजकाः भवन्ति इति मन्यते।
ऋग्वेदे ‘ज्ञानकाण्ड प्रतिपादितं, यजुर्वेदे कर्मकाण्डं, सामवेदे उपासनाकाण्डं, तथा अथर्ववेदे विज्ञानकाण्ड प्रतिपादितम्।
धार्मिकदृष्टया वेदानां महत्त्वमस्ति। सर्वेषु शुभकार्येषु वेदानां प्रभावः दृश्यते। विवाहसंस्कारसमये, उपनयनसंस्कारसमये वेदमन्त्रम् वदन्ति। एतेषां भाषा अतीव मधुरा सरला च वर्तते। वेदेषु सर्वेषां दीर्घायुषः कामना दृश्यते। वेदेषु कृताः उपदेशाः सार्वभौमिका: सन्ति। अत: वेदानां महत्त्वं सर्वेः स्वीकृतम्।
COMMENTS