सुभाष चन्द्र बोस पर संस्कृत निबंध (Essay on Subhash Chandra bose in Sanskrit)

Admin
0

सुभाष चन्द्र बोस पर संस्कृत निबंध (Essay on Subhash Chandra bose in Sanskrit)

सुभाष चन्द्र बोस पर संस्कृत निबंध: सुभाष चन्द्र बोस विश्वस्मिन् नेताजी इति प्रसिद्धः। सः भारतभूमेः स्वतन्त्र्यार्थं प्राणार्पणम् अकरोत्। ओड़िशायाः प्रसिद्धनगरे कटके सः अजायत। सः बाल्यकालादेव बुद्धिमान् आसीत्। सुभाषस्य पितुः नाम जानकीनाथः, मातुः नाम प्रभावती च। सुभाषस्य कुटुम्बः विशालः आसीत्। कुटुम्बे १४ बालाः आसन्। तस्य पिता आङ्लशासनस्य समर्थकः परन्तु सुभाषः बाल्यकालादेव आङ्लशासनस्य विरोधी आसीत्। 

सुभाष चन्द्र बोस पर संस्कृत निबंध (Essay on Subhash Chandra bose in Sanskrit)

पञ्चमे वयसि सुभाषः कटकस्य आङ्गलभाषाविद्यालयं प्राविशत्। विद्यालयस्य दृष्टिः आङ्गलजनानां दृष्टिः इव एव आसीत्। तत्र विद्यमानं जातीयभेदभावं सः न असहत। तत्र आङ्गलबालकानां स्थानं भारतस्य बालकानां स्थानस्य अपेक्षया उच्चतरम् आसीत्। ततः सः भारतीयविद्यालयं प्राविशत्। विद्यालयस्य प्रधानः बेनीमाधवः सुभाषस्य मनसि महान्तं प्रभावम् अजनयत्। १५ वयसि सुभाषः विवेकानन्दस्य विचारधारातः प्रभावितः जातः । १६ वयसि सुभाषः मैट्रिक्-परीक्षाम् उत्तीर्णः। तत्पश्चात् सः आङ्ग्लदेशे आई०सी०एस्० परीक्षामपि उत्तीर्णवान्।

सुभाषः स्वतन्त्रभारतम् ऐच्छत्। द्वितीयविश्वयुद्धे सः आज़ादहिन्दफ़ौज़स्य सर्वोच्चसेनापतिः आसीत्। रासबिहारीबोसः सुभाषाय दक्षिणोत्तरजम्बुद्वीपस्य क्रान्तेः नेतृत्वम् अयच्छत्। सः दक्षिणोत्तरजम्बुद्वीपात् पूर्वोत्तरभारते आङ्गलराज्ये आक्रमणम् अकरोत्। चित्तरञ्जनदासः सुभाषस्य राजनीतेः गुरुः आसीत्। १९२३ तमे वर्षे सः अखिल भारतीय युवाकाङ्ग्रेसस्य अध्यक्षः अभवत्। सः देशबन्धुनामकस्य समाचारपत्रस्य सम्पादकः अपि अभवत्। १९२५ तमे वर्षे सः कारागृहवासी जातः। १९२७ तमे वर्षे सः कारागृहात् मुक्तः जातः। अग्रिमेषु वर्षेषु सः फिरङ्गद्वीपे अभ्रमत्। १९३८ तमे वर्षे सः काङ्ग्रेसपक्षस्य अध्यक्षः अभवत्। युद्धेनैव भारतस्य स्वातन्त्र्यप्राप्तिः इत्येषा आसीत् तस्य विचारधारा। अतः महात्मा गान्धिः तस्य विरोधी आसीत्। गान्धेः विरोधेन सः काङ्ग्रेसपक्षस्य अध्यक्षपदात् निष्क्रान्तः जातः। सः समतावादी प्रभावशाली क्रान्तिकारी नेता च आसीत्।

तत्पश्चात् सः फ़ार्वर्ड ब्लाकस्य नाम्नः राजनैतिकदलम् अघटयत् । द्वितीयविश्वयुद्धे सः अफ़गानिस्तानस्य रूसस्य च मार्गेण जर्मनीम् अगच्छत्। तत्र सः हिटलरस्य समर्थनात् भारतस्य युद्धबद्धान् सेना अघटयत् । शनैः शनैः सः आनुभवत् जर्मन्याः युद्धे विजयः न सम्भवति। तदा एव सः रासबिहारी बोसस्य संदेशम् लभते। संदेशः दक्षिणोत्तर जम्बुद्वीपस्य भारतस्य स्वातन्त्र्यान्दोलनस्य नेतृत्वस्य प्रार्थना आसीत्। तत्पश्चात् सः नाज़ीआज्ञात् ब्रुडनवात् जापानं अगच्छत्। तत्र जापानस्य प्रधानमन्त्री सेनापति तोजो सुभाषेण आकर्षणं अकरोति। तोजो सुभाषस्य मित्र: अभवत्। तत्पश्चात् सः सिंगापोरम् अगच्छत्। तत्र सः आज़ादहिन्दफ़ौज़स्य भारतस्य स्वातन्त्र्यसंघस्य च नेता अभवत्।

सुभाषः अति प्रभावशाली नेता आसीत्। अतः सर्वेषाम् जनानाम् सेनाम् प्रति असङ्गच्छत्। सुभाषः तेन अवदत्- "यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।" जापानस्य सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरोत्। जापानम् अण्डमान-निकोबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत्पश्चात् इदम् स्वतन्त्रभारतस्य प्रथम राज्य अभवत्।

सुभाषस्य सेनायाः अधुना मणिपुरस्य कोहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सेना आज़ादहिन्दफ़ौज़म् जापानस्य सेनाम् जयति। तत्पश्चात अमेरीका जापाने अण्वस्त्रस्य प्रयोगम् अकरोत्। अतः जापानम् स्व पराजयम् आदत्ते। परन्तु आज़ादहिन्दफ़ौज़ः स्व पराजयम् आदत्ते! सुभाषः विमानात् रूसम् गमतुम् अइच्छत्। परन्तु विमानदुर्घाटनया स्वर्गवासं अभवत्। अतः अधुना आज़ादहिन्दफ़ौज़ः अपि समर्पणम् अकरोत्। परन्तु अखिलभारतस्य विरोधेण अङ्गलसरकार आज़ादहिन्दफ़ौज़स्य सैनिकाः मुक्तम अकरोत्। भारतस्य स्वाधीनतायां सुभाषस्य योगदानम् अद्वितीयम् अस्ति । केचित् बुधाः अवदन् यत् सुभाषस्य भयात् एव भारतं स्वाधीनतां प्राप्नोत् इति।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !