Thursday, 11 October 2018

गीता सुगीता कर्तव्या। Bhagavad Gita Essay in Sanskrit

गीता सुगीता कर्तव्या। Bhagavad Gita Essay in Sanskrit

Bhagavad Gita Essay in Sanskrit
गीताया महत्त्वम् - कस्य न विदित विपश्चिता भगवद्गतिाया गुणगौरवम् गीतये। न केवलं प्रस्तवीति सवसिामपि उपनिषदां सारभागम्, अपि तु श्रुतिसारमपि प्रस्तौतितराम्। सांख्ययोगदर्शनयोः सिद्धान्तानां वैशद्येन विवेचनात् प्रतिपादनाच्च दर्शनसारसंग्रहोऽप्यत्र उपलभ्यते। वेदान्तदर्शनप्रतिपादितस्य तत्त्वमसि' इति महावाक्यस्यापि अत्रोपलम्भाद वेदान्तावगाहित्वमप्यस्य लक्ष्यते। सेयं सरलया भावाभिव्यक्ति-प्रक्रियया, भूयिष्ठयाऽर्थगभीरतया, प्रेष्ठया पद्धत्या, श्रेष्ठया विवृतिसरण्या, साधिष्ठया योग-साधनादीक्षया, वरिष्ठया आत्मविशुद्धि-शिक्षया सर्वस्यापि लोकस्य आदृतिम् अनुभवति।

दुग्धं गीतामृतम्-गीतायाम् अस्यां सर्वासामपि उपनिषदां सार: मनोज्ञया पद्धत्या साधुतरं विविच्यते। उपनिषत्सु ये भावाः केवलं दार्शनिकपद्धत्या नीरसौल्या च समभिहिताः सन्ति, ते एव भावाः साधिष्ठया भावप्रकाशनशैल्या विशदं समासतश्च प्रस्तूयन्ते। गीता न केवलम् उपनिषदामेव अपि तु समग्रस्यापि पूर्ववर्तिनो वाड्मयस्य सारम् उपस्थापयति। अत एव गीता लोकप्रिया विश्वप्रिया चाभवत्। उक्तं च-
सर्वोपनिषदो गावो, दोग्धा गोपालनन्दनः ।
पार्थो वत्सः सुधीभक्ता, दुग्धं गीतामृतं महत् ।।
गीतायाः सर्वविषयावगाहित्वेन, ज्ञान-विज्ञानसमन्वयात्, अध्यात्मविद्याचरमोत्कर्षण, जगतो विनश्वरता प्रतिपादनेन, साधनापतेः विवृत्या, आचार-विचार-शिक्षया, कर्तव्याकर्तव्य-प्रबोधनेन, निष्काम-कर्म-दीक्षया, अनासक्तियोग-शिक्षया चेयं समेषामपि विपश्चित हद्या अपचितिभाक् च संजाता।
अस्या भाषाशैली तादृशी मनोरमा, प्रसादगुणोपेता, माधुर्यावगाहिनी च यत् स्वल्पशिक्षा-प्रबुद्धोऽपि मानवोऽस्याः सामान्यमर्थम् अवगन्तुं पारयति। अतएव ‘गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः' इति वचने न संशीतिलेशोऽपि।

गीताया विषयप्रतिपादनम्- केचन दार्शनिका भावा ये दर्शनानां सारभूता आदर्शरूपाश्च सन्ति ते तथा रुचिरया भाषयाऽभिहिताः सन्ति, यथा सर्वजन-ग्राह्यत्व भजन्ते। यथा-आत्मन: अजरत्वम् अमरत्वम् अविनाशित्वं च यद् दर्शनानां सारमस्ति तत् कथमिव हृद्यरूपेण माधुर्येण च प्रस्तूयते-
अजो नित्यः शाश्वतोऽयं पुराणो ।
न हन्यते हन्यमाने शरीरे।।
आत्मनः अवध्यत्वं शाश्वतत्व चोपदिशता प्रोच्यते-
नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः ।
न चैन क्लेदयन्त्यापो, न शोषयति मारुतः ॥
मृत्युना शरीरनाशो न त्वात्मविनाशः, अन्यजन्मधारणं जीर्णवस्त्रपरिवर्तनेन नववस्त्र-धारणमिव विज्ञेयम्। तद्यथा-
वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ।।
सांख्याभिमतः सत्कार्यवादः श्लोकहुयेन साधूपस्थाप्यते।
नासतो विद्यते भावो, नाभावो विद्यते सतः ।
अव्यक्तादीनि भूतानि, व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव, तत्र का परिदेवना ॥
स्वकर्तव्यपालनं मानवस्य परम कर्तव्यम्। कर्तव्यपालनेनैव जीवनस्य साफल्यं सिद्धिलाभश्च। तद्यथा-
स्वे स्वे कर्मण्यभिरतः, संसिद्धि लभते नरः ॥
कीर्तिरक्षा मानवस्य मुख्य लक्ष्यम्। अयशोदूषितस्य नरस्य जीवनेन अलम् । यशो हि परमं भूषणम्।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ।।
कर्म फलस्य अवश्यभावित्वम् उपपादयता साधु निरूप्यते यत् नहि कर्मनाशः, न च कर्मफले प्रत्यवायः। स्वल्पमपि सुकृतं महद्भयविनाशकम् इति।
नेहाभिकमनाशोऽस्ति, प्रत्यवायो न विद्यते ।।
स्वल्पमयस्य धर्मस्य त्रायते महतो भयात् ।।
अनासक्तभावेनैव कार्यकरणं गीतायाः परमोपदेशः। तदुच्यते-
कर्मण्येवाधिकारस्ते, मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥
अनासक्तिभावनया क्रियमाणं कर्म न बन्धनहेतुः, न च विषयोपलेपसाधनम्, अपि तु दु:ख-पाप-विनाशनत्वाद् योगरूपं सत् त्रिविधतापापहं संजायते। उच्यते च-
बुद्धियुक्तो जहातीह, उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व, योगः कर्मसु कौशलम् ॥
विषयासक्तेः दुरुदत्वं. दुष्परिणामित्वं च कथमिव मनोवैज्ञानिक्या शैल्या प्रतिपाद्यते यद्-
ध्यायतो विषयान् पुंसः, सङ्गस्तेषूपजायते ।।
सङ्गात्सञ्जायते कामः, कामाक्रोधोऽभिजायते ॥
क्रोधाद्भवति सम्मोहः, सम्मोहात्स्मृतिविभ्रमः ।।
स्मृतिभ्रंशाद बुद्धिनाशो, बुद्धिनाशात्प्रणश्यति ॥
इन्द्रियसंयमः साफल्यस्य साधनमिति न केनापि व्यषदेष्टुं पार्यते। अत एवोच्यते यत् संयमिन एव प्रज्ञा प्रतिष्ठिता भवति।
तस्माद्यस्य महाबाहो, निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥
कर्तव्यस्य कर्मणः अनिवार्यत्वम् उपपादयता उपस्थाप्यते यत् कर्तव्यानुष्ठानम्। अन्तरेण लोकयात्राऽपि न प्रवर्तेत।
नियतं कुरु कर्म त्वं, कर्म ज्यायो ह्यकर्मणः ।।
शरीरयात्रापि च ते, न प्रसिद्धयेदकर्मणः ॥
यज्ञस्य महत्त्वम् उपवर्णयता तस्य सर्वाभीष्टप्रदत्वम् उपपाद्यते-
देवान् भावयतानेन, ते देवा भावयन्तु वः ।।
परस्परं भावयन्तः, श्रेयः परमवाप्स्यथ ।।
तस्मात्सर्वगतं ब्रह्म, नित्यं यज्ञे प्रतिष्ठितम् ॥
आत्मसमर्पणस्य आत्मप्राप्तिसाधकत्वं प्रतिपाद्यते-
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्मा ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं, ब्रह्मकर्मसमाधिना ।।
ज्ञानस्य परमपावनत्वं सर्वकर्मनाशकत्वं सर्वदुःखनिवारकत्वं च प्रतिपाद्यते-
ज्ञानाग्निः सर्वकर्माणि, भस्मसात्कुरुते तथा ॥
न हि ज्ञानेन सदृशं, पवित्रमिह विद्यते ।
जीवने श्रद्धायाः किं महत्त्वं किं च तदुपयोगित्वमिति निरूपयता प्रोच्यते-
श्रद्धावल्लभते ज्ञानं, तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ।।
युक्ताहारविहार एवं योगसाधने समर्थः। तादृशस्यैव आत्यन्तिकी दुःख-प्रहाणिः संजायते-
युक्ताहारविहारस्य, युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य, योगो भवति दुःखहा ॥
अभ्यासाद् ज्ञानम्, ज्ञानाद् ध्यानम्, ध्यानात् कर्मफलत्यागो विशिष्यते। कर्मफलत्यागः शान्तेः प्रमुखं सोपानम्।
श्रेयो हि ज्ञानमभ्यासाज्ञानाद् ध्यानं विशिष्यते ।।
ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥
ऊर्ध्वमूलस्याश्वत्थस्य वर्णनं दर्शनुसारसंग्रहम् उपलक्ष्यति।।
ऊर्ध्वमूलमध:शाखमश्वत्थ प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि, यस्तं वेद स वेदवित् ।।
दैवीसम्पद आसुरीसम्पदश्च वर्णनम् आचारशास्त्रं मानवजीवनस्य कर्तव्याकर्तव्यं च प्रस्तौतितराम्। अहिंसादिगुणगणसंपृक्ता दैवी सम्पद् विमोक्षाय, हिंसा-मिथ्याभाषणादिदुर्गुण-तति-निरता आसुरी सम्पद् बन्धनाय विनाशाय च प्रवर्तेते, नात्र संशीतिः।
देवी संपद्विमोक्षाय, निबन्धायासुरी मता ॥
श्रद्धाया मनोवैज्ञानिक रूपम् उपस्थापयता प्रोच्यते यत् पुरुषोऽयं श्रद्धामयः। यादृशी मानवस्य श्रद्धा तादृशः सोऽवगन्तव्यः।
श्रद्धामयोऽयं पुरुषो, यो यच्छुद्धः स एव सः।
जीवने सर्व-कर्म-परित्यागेऽपि यज्ञ-दान-तपसाम् अपरिहार्यत्वम् अवश्यकर्तव्यत्वं च गृहमेधिनां यतीनां च कृते निरूप्यते। जीवनस्य पावनत्वं त्रयाणामप्येषां फलम्।
यज्ञदानतपःकर्म, न त्याज्यं कार्यमेव तत् ।।
यज्ञो दान तपश्चैव, पावनानि मनीषिणाम् ॥
स्वधर्मानुशिष्टं कर्म कथमपि न परिहेयम्। स्वधर्मे निधनमपि श्रेयोवहम्।
श्रेयान्स्वधर्मो विगुणः, परधर्मात्स्वनुष्ठितात् ।
स्वधर्म निधनं श्रेयः, परधम भयावहः ॥
सहज कर्म कौन्तेय, सदोषमपि न त्यजेत्।
एवमिह गीता प्रतिपादितानां केषांचिद् राद्धान्तानां समासतोऽत्र वर्णनम् उपस्थापितम्। एतस्यावलोकनेन निश्चप्रचम् एतत् सिध्यति यद् गीतायां सर्वेषां दर्शनानाम् उपनिषदां च सारः प्रस्तूयते। यदि केवलं गीतका एव अधीयते, विविच्यते, चिन्त्यते, लौकिकजीवने व्यवहियते च तर्हि मानवजीवनं सर्वथा सुख-शान्ति-समन्वितं सदुदर्क च भविष्यति। अतः साधूच्यते-
गीता सुगीता कर्तव्या, किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पदमनाभस्य, मुखपद्माद् विनिःसृता ॥

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 comments: