Mam Priya Adhyapak Nibandh in Sanskrit : In this article we are providing मम प्रिय अध्यापक पर संस्कृत में निबंध Students and teacher can use this Long Essay on Mam Priya Adhyapak in Sanskrit.
मम प्रिय अध्यापक पर संस्कृत में निबंध - Mam Priya Adhyapak Nibandh in Sanskrit
अस्माकं विद्यालये विंशति अध्यापका: सन्ति। ये विद्वांस: गुणिनश्च सन्ति। ते सर्वे एव मम पूज्या अध्यापका: सन्ति। तेषु अध्यापकेषु श्रीमन् रूपचन्दः शास्त्रि: मम प्रियतम: अध्यापक: अस्ति।
श्रीमान् रूपचन्द शास्त्रि: त्रिंशत् वर्षीयः अध्यापकः अस्ति । सः संस्कृत साहित्ये स्नातकोत्तरं (एम.ए.) परीक्षा उत्तीर्य शोध-प्रबन्धं लिखित्वा प्रवक्ता: अभवत्। सः अस्मान् संस्कृतं पाठयति। असौ मधुरभाषी:, आस्तिकः, सदाचारी, धार्मिकः, सुशील: च अस्ति । स कदापि धूम्रपानं सुरापानं वा न करोति ।
तस्य अध्यापन विधि सुस्पष्टा, सरला, सुबोधा च अस्ति। असौ विद्यावारिधिः। स: यथा छात्रान् उपदिशति तथैव स्वयमपि कार्यं करोति । सः सर्वदा प्रियं हितं च वचनं वदति। सः सर्वदा सर्वान् छात्रान् अध्ययने प्रेरयति। सः सदा छात्राणां हितम् इच्छति । स स्व उत्तरदायित्वं सम्यक् निर्वहति। अतएव न केवलं छात्रा: अपितु शिक्षकवर्ग: अपि तं भूय: प्रशंसन्ति ॥ एतादृशा: एव गुरव: यदि सर्वत्र भवेयुः तर्हि श्लोकमिदमत् चरितार्थभ् स्यात् -
अज्ञान तिमिरान्धस्य ज्ञानाञ्जन-शलाकया।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ।।
एतादृशानाम् गुरुवर्याणाम् कृते एवं उच्यते:
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः॥
0 comments: