Wednesday, 13 November 2019

पिता को पुत्री का पत्र संस्कृत में - Letter to Father in sanskrit

Letter to Father in Sanskrit : In This article, We are providing पिता को पुत्री का पत्र संस्कृत में for Students and teachers.

पिता को पुत्री का पत्र संस्कृत में - Letter to Father in sanskrit

मुम्बापुरीतः
दिनांक 2 नवम्बर 2019
माननीय पितः
चरणारविन्दयोः प्रणामाः
    मया भवतः पत्रं प्राप्तम्। अधिगतं मय भावत्कं पत्रम्। ज्ञातं च निखिलं वृत्तम् । तेन अतीव प्रसन्ना अहम् ।
  अहम् अत्र कुशलिनी। गतसप्ताहे एव अस्माकं महाविद्यालयस्य स्नेहसंमेलनं सम्पन्नमभवत् । तस्मिन् बहवः मनोरंजनात्मकाः कार्यक्रमाः संजाताः । मयाऽपि तत्र एकस्मिन् नाट्यप्रवेशे नायिकायाः भूमिका कृता आसीत् । तदर्थ मया त्रीणि पारितोषिकाणि प्राप्तानि । तथापि इतः परम् अस्मिन् वर्षे एतादृशेषु कार्यक्रमेषु न सहभागिनी भवेयम् इति मया निश्चितमस्ति। यतः इदानीं वार्षिकी परीक्षा केवलं मासावधि समागता। तस्यामपि प्रथमश्रेणी उपलभ्या एव । अतः इतः परं अध्ययनकर्मण्येव सुतरां व्यापृता भविष्यामि । कदाचित पत्रमपि नियतसमये प्रेषयितुं न शक्ष्यामि । तथापि मा चिन्तां कुरुत। समाप्तायां तु परीक्षायां गृहं प्रत्यागन्तुम् अहम् अत्युत्सुका अस्मि। 
  माननीयायाः मातुः चरणयोः सादरं प्रणतिः । गृहे गुरुजनेभ्यो नमः । स्वस्ति कनिष्ठेभ्यः सोदरेभ्यः । अन्यत् सर्वं कुशलम् ।
भवदीया स्नेहदुर्ललिता

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: