Monday, 11 November 2019

रक्षाबंधन पर संस्कृत में निबंध - Essay on Raksha Bandhan in Sanskrit

रक्षाबंधन पर संस्कृत में निबंध : Raksha bandhan is a popular Hindu festival celebrated in India. In this article we are providing रक्षाबंधन पर संस्कृत में निबंध. Students and teacher can use this Long Essay on Raksha Bandhan  in Sanskrit to write small essay on 10 line on Raksha Bandhan in sanskrit.

रक्षाबंधन पर संस्कृत में निबंध - Essay on Raksha Bandhan  in Sanskrit

अस्मिन् संसारे दुःखानाम् आधिक्यं वर्तते । सर्वे जनाः सुखम् इच्छन्ति । दुःखितानां दुःखहरणे पर्वानाम् प्रमुखं स्थानं वर्तते। विश्वस्य सर्वेषु राष्ट्रेषु महोत्सवा: भवन्ति । भारतवर्षे अपि बहवः महोत्सवा: जायन्ते । यैः समये-समये जना: जागृतिं नवोल्लासं च लभन्ते। तेषु चत्वारः उत्सवा: प्रमुखा: सन्ति । तद्यथा-रक्षाबन्धनम्, विजयादशमी, दीपमालिका होलिकोत्सवश्च। तेषु अपि रक्षाबन्धनम् मुख्यतमं वर्तते । अयम् उत्सव: श्रावणमासस्य पूर्णिमायां भवति । अयम् समय: अति मनोहारी भवति, शीतल: पवन: प्रवहति, सर्वत्र हरीतिमा एव दृश्यते। Read also : दशहरा पर संस्कृत में निबंध

अनेन पर्वणा एका ऐतिहासिकी कथा अपि सम्बद्धा अस्ति । एकदा इन्द्राणी स्वपत्यु: इन्द्रस्य हस्ते दानवेभ्य: रक्षणार्थम् रक्षाबन्धनम् अकरोत् । इन्द्रः तेन एव रक्षा सूत्रेण दैत्यं बलिं बबन्ध । यथा च रक्षाबन्धन समये पठ्मानेन अनेन श्लोकेन ज्ञायते Read also : दुर्गा पूजा पर संस्कृत निबंध
येन राजा बलिर्बद्धो, दानवेन्द्रो महाबलः ।
तेन त्वां प्रतिबध्नामि, रक्षे मा चल मा चल ।। 
तदा प्रभृति अयं उत्सव: भवति । अनुश्रूयते यत्-राज्ञी कर्णवती मुगलराजं हुमायूं नृपतेः पार्श्वे स्वरक्षार्थं रक्षासूत्रं प्रेषितवती । हुमायूँ: अपि ताम् भगिनीं मत्वा तस्या: रक्षां अकरोत् । प्राचीन काले ऋषय: ब्राह्मणाश्च अस्मिन् पर्वे यजमानानाम् हस्तेषु रक्षासूत्रम् अबधन्त। यजमानाश्च तेषाम् जीवन निर्वाहार्थम् पर्याप्तं धनम् यच्छन्ति स्म । लोके अयम् उत्सव: 'राखी' इति नाम्ना उच्यते। अस्मिन् दिने भगिन्य: स्वभ्रातृणां हस्तेषु रक्षाबन्धनं कुर्वन्ति, इच्छन्ति च यत् इदं रक्षासूत्रं तान् विपद्भ्यः रक्षेत् । भ्रातरः अपि तासां रक्षार्थं प्रतिज्ञां कुर्वन्ति । केंद्रीय शासनेन अयं दिवस: संस्कृत दिवस रूपेण स्वीकृत:। अतएव अस्मिन् दिने भारतवर्षे स्थाने-स्थाने संस्कृतोत्सवाः अपि भवन्ति ।

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: