Sunday, 10 November 2019

दशहरा पर संस्कृत में निबंध -Dussehra Essay in Sanskrit

Dussehra essay in sanskrit : Vijayadashami also known as Dussehra is a major Hindu festival. In this article we are providing दशहरा या विजयादशमी पर संस्कृत में निबंध. Students and teacher can use this Long essay on Vijayadashami / Dussehra in Sanskrit to write small essay on 10 line on Dussehra in sanskrit.

दशहरा पर संस्कृत में निबंध -Dussehra Essay in Sanskrit

भारतवर्षे बहवः महोत्सवाः भवन्ति। महोत्सवैः जनतासु उल्लास: उत्साह: च उत्पद्यते। तेषु उत्सवेषु चत्वार: उत्सवा: प्रमुखा: सन्ति। तद्यथा-विजयादशमी, रक्षाबन्धनं, दीपमालिका, होलिकोत्सवश्च। एतेषु अपि विजयादशम्या: प्रमुखं स्थानं वर्तते । विजयादशमी आश्विनस्य शुक्ले पक्षे दशम्याम् तिथौ भवति।

अनुश्रूयते यत् श्रीरामः लंकेश्वरं रावणं हत्वा स्वां धर्मपत्नी प्राप्तवान्। अस्य उपलक्ष्ये अयं महोत्सव: भवति । यदा राम: विजयम् अलभत् तदा आश्विन-मासस्य शुक्लपक्षस्य दशमी आसीत्। अत: अयं दिवस: 'विजयदशमी' इति कथ्यते। श्री रामस्य विजयमाश्रित्यैव अयम् उत्सव: देशस्य प्रत्येक नगरे ग्रामे च आयोजितं भवति। अस्मिन् दिने रावणस्य, तस्य भ्रातुः कुम्भकर्णस्य, तस्य पुत्रस्य मेघनादस्य च प्रतिमा: ज्वालयन्ति। मानवा: एतद् सर्व विलोक्य परमं प्रसीदन्ति। अयं उत्सव: संदिशति यत् रामादिवत् प्रवर्तितव्यं, न रावणादिवत्। अयं उत्सव: अधर्मे धर्मस्य, पापे पुण्यस्य, असत्ये सत्यस्य च विजयस्य प्रतीक: अस्ति। Read also : दुर्गा पूजा पर संस्कृत निबंध

अस्मिन् दिने शस्त्रपूजनम् अपि भवति। अस्मिन् दिने एव भगवतो बुद्धस्य जन्म: अपि अभवत्। सर्वत्र हर्षमयं वातावरणं भवति । मानवा: नवानि वस्त्राणि परिधाय आमोदं मानयन्ति । अस्मिन् दिने सूर्योदयात् पूर्वमेव नीलकण्ठ पक्षिदर्शनं शुभशकुनम् मन्यन्ते। जना: तस्य दर्शनार्थम् तम् अन्वेष्टुम् वनानि गच्छन्ति। स्थाने-स्थाने विजयामेलपका: अपि भवन्ति। उत्तर भारते सर्वत्र रामलीलाया: प्रदर्शनं भवति। स्त्रिय: बालाश्च तेषु आनन्दम् अनुभवन्ति। मित्राणि परस्परं उपहारान् प्रेषयन्ति। अयं उत्सव: बङ्गप्रदेशस्य प्रमुख: उत्सव:। अस्याम् तिथौ बंगप्रान्ते दुर्गाया: पूजा भवति। अस्मिन्नेव दिवसे भगवत्या महाकाल्या असुराणाम् विनाश: कृतः।

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: