माता को संस्कृत में पत्र। Letter to Mother in Sanskrit
जयपुरतः
दिनाड्.क ...............
श्रीमत्याः मातुश्चरणयोःसादरं प्रणामाः।
अत्र कुशलं तत्रास्तु। भवदीयं कृपापत्रं अधिगतम् कुशलं समाचारैः अवगता अस्मि। सम्प्रति स्वाध्याये दत्तचित्ता अहम्।
अस्माकं प्रधानाचार्यः अति सरलः गम्भीरः एवं व्यवहारकुशलः अस्ति। सः छात्रान् छात्राष्च पुत्र-पुत्रीवत् स्निह्यति, अस्माकं हितान् संरक्षति। अतो हि भवत्या काऽपि चिन्ता न विधेया।संस्कृतस्य अध्ययनं प्रति मम विशिष्टा प्रवृत्तिः अस्ति। आशासे वार्षिकपरीक्षायां प्रथमश्रेण्यां सफला भविष्यामि। परीक्षानन्तरं गृहम् आगमिष्यामि।
श्रीमतः पितुश्चरणयोः मम नमनम् वाच्यम्। कृपया पत्रोतरं शीघ्रं देहि।
भवदाज्ञाकारिणी पुत्री
आयता
Related Letters:
0 comments: