शतं शुभानि भूयासुः
गृहात् विद्यालयं गतस्य तव पञ्चदशदिवसाः व्यतीताः, किन्तु नैकमपि पत्रं प्राप्तम्। येन वयं चिंताग्रास्ताः स्मः। त्वदीया माता तु अति व्याकुला अस्ति।
किं छात्रावासे स्थानलाभः जातः न वा ? इति ज्ञातुम् इच्छामि। कदा भविष्यति ते वार्षिकपरीक्षा ? सावधानचेतसा पठितव्यम्। न कदापि वृथा कालः क्षेपणीयः। रात्रौ जागरणमपि शरीरं रोगग्रस्तं करोति। शरीरमाद्य खलु धर्मसाधनमित्यस्ति साधुवचनम्।
आशासे यत त्वम् तत्र प्रसन्नः असि। सर्वमिदं शीघ्रं सूचनीयम्।
अत्र सर्वे कुशलिनः। शुभमिति।
त्वदीयः
जगदेवः