Conversation Between Shopkeeper and Customer in Sanskrit / संस्कृत संवाद लेखन, विक्रेता - आगच्छतु आगच्छतु। शाकानि क्रीणातु। आगच्छतु आगच्छतु। गृहिणी - अयि भो:, कानि कानि शाकानि विद्यन्ते? विक्रेता - अस्ति अत्र कारवेल्लम्, कर्कटी, भिण्डि:, इदमिदानीम् आगतं प्रत्यग्रं वृन्ताकं, रक्तवर्णं गृञ्जनकं च। किम् इच्छति? गृहिणी - किं मूल्यम् आलुकस्य। विक्रेता - न अधिकं भो:, केवलं विंशति: रूप्यकाणि प्रतिकिलोमितम्। गृहिणी - अस्तु, किलोपरिमितं यच्छतु। भिण्डि: अपि अर्धकिलोमितम्। विक्रेता - अवश्यम्। इतोऽपि किम् आवश्यकम् ? शीघ्रं वदतु। गृहिणी - कर्कटीं यच्छतु, अर्धकिलोपरिमितं वृन्ताकं च। दशरूप्यकमूल्यमिताः मरीचिका: अपि यच्छतु। विक्रेता - अपि स्यूत: आनीत:?
Conversation Between Shopkeeper and Customer in Sanskrit / संस्कृत संवाद लेखन
विक्रेता - आगच्छतु आगच्छतु। शाकानि क्रीणातु। आगच्छतु आगच्छतु।
गृहिणी - अयि भो:, कानि
कानि शाकानि विद्यन्ते?
विक्रेता - अस्ति अत्र कारवेल्लम्, कर्कटी, भिण्डि:, इदमिदानीम् आगतं प्रत्यग्रं वृन्ताकं, रक्तवर्णं गृञ्जनकं च। किम् इच्छति?
गृहिणी - किं मूल्यम् आलुकस्य।
विक्रेता - न अधिकं भो:, केवलं
विंशति: रूप्यकाणि प्रतिकिलोमितम्।
गृहिणी - अस्तु, किलोपरिमितं
यच्छतु। भिण्डि: अपि अर्धकिलोमितम्।
विक्रेता - अवश्यम्। इतोऽपि किम् आवश्यकम् ? शीघ्रं वदतु।
गृहिणी - कर्कटीं यच्छतु, अर्धकिलोपरिमितं
वृन्ताकं च। दशरूप्यकमूल्यमिताः मरीचिका:
अपि यच्छतु।
विक्रेता - अपि स्यूत: आनीत:?
गृहिणी - न भो:! प्लास्टिकस्यूतं ददातु।
विक्रेता - क्षम्यताम्। प्लास्टिक-उपयोग: प्रदूषणकारक:। अहं प्लास्टिकस्यूतं न स्थापयामि एव।
गृहिणी - अधुना किं करणीयम् ?
विक्रेता - वस्त्रस्यूतम् अपि क्रीणातु। मूल्यं केवलं पञ्चरूप्यकाणि।
गृहिणी - बहु उत्तमम्। ददातु। अधुना मूल्यं कथयतु।
विक्रेता - आलुकस्य विंशति: रूप्यकाणि, भिण्ड्या: पञ्चविंशति: रूप्यकाणि, कर्कट्या:
पञ्चदश रूप्यकाणि, वृन्ताकस्य
विंशति: रूप्यकाणि, दश रूप्यकाणि मरीचिकाया:, वस्त्रस्यूतस्य
पञ्चरूप्यकाणि। आहत्य पञ्चनवति: रूप्यकाणि।
गृहिणी - अस्तु। शतरूप्यकाणां धनपत्रं यच्छामि। अवशिष्टस्य धनस्य आर्द्रकं यच्छतु।
विक्रेता - अस्तु।
Can you please translate this in English also so that we learn the meaning of the Sanskrit words written. Thank you
ReplyDelete