Tuesday, 9 July 2019

Dialogue Writing / Conversation between Teacher and Students in Sanskrit in Classroom

Dialogue Writing / Conversation among Teacher and Students in Sanskrit in Classroom

Dialogue Writing / Conversation between Teacher and Student in Sanskrit in Classroom
अध्यापकः - भो छात्राः! अद्य किं पठितुम् इच्छा अस्ति ?
छात्राःसमवेतः - श्रीमन् ! अद्य वयं विवेकानन्दविषये ज्ञातुम् इच्छामः।
अध्यापकः - उत्तमम्! वयं विवेकानन्दस्य बाल्यकालविषये ज्ञास्यामः।
गोपालः - विवेकानन्दः बाल्यकाले कीदृशः आसीत् ? सः किं किं करोति स्म ?
अध्यापकः - विवेकानन्दः बाल्यकाले साहसी आसीत्। तस्मै क्रीडा अतीव रोचते स्म।
लता - सः कथं प्रसिद्धः जातः?
अध्यापकः - सः जिज्ञासुः आसीत्। धर्मविषये तस्य जिज्ञासा कालक्रमेण बलवती जाता। भाषाध्ययनं तस्य ज्ञानवृद्धिम् अकरोत्। सः महान् वक्तारूपेणापि ख्यातिं प्राप्तवान्।:
उमेशः - श्रीमन्! मम माता वदति स्म यत् बाल्यकाले विवेकान्दस्य नाम नरेन्द्रः आसीत्।
किमिदं सत्यम् ?
अध्यापकः- आम् सत्यम्। कालान्तरे सः विवेकानन्दनाम्ना विश्वविख्यातः अभवत्।
पियासी - तस्य विषये अन्यः कोऽपि विशेषः?
अध्यापकः- तस्य विचारः उत्तमः आसीत् यत् मानवसेवा एव ईश्वरसेवा अस्ति। तस्य प्रभावेण जनाः संघटिताः भवन्ति स्म। सः देशे विदेशे च भारतीयसंस्कृतिम् उपदिशति स्म।
पियासी - महोदय!रायपुरनगरस्य विमानपत्तनं कथं विवेकानन्दनाम्ना प्रख्यातम् ?
अध्यापकः - किशोरावस्थायां विवेकानन्दः रायपुरनगरे कालं व्यतीतवान्। श्रूयते यत् सः भाटकेन नागपुरतः रायपुरम् आगच्छत्। अत्र सः संगीतशिक्षाम् अगृह्णात्। तस्य स्मरणार्थमेव विमानपत्तनस्य नाम विवेकानन्द इति दत्तम्।
उमेशः - श्रीमन्! पाककलायां च विवेकानन्दस्य रुचिः आसीत्। इदमपि तथ्यम्।
अध्यापकः - आम्।

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: