बैडमिंटन पर संस्कृत निबंध (Essay on Badminton in Sanskrit)
बैडमिंटन पर संस्कृत निबंध: बैडमिंटन क्रीडा भारतदेशे प्रसिद्धं वर्तते। बैडमिंटनस्य ताड्नजालिका 'रैकेट' इति कथ्यते। अस्या आकार् -प्रकारः लान-टेनिसस्य रैकेटवदेव भवन्ति। अतस्तद्विषये यत्सूचितमस्ति तदेवात्रापि ज्ञेयम्। बैडमिंटन-क्रीडायाः स्थलं ४४ फुटमितमायतं २० फुटमितं च विस्तृतं भवति। यस्य केन्द्र पञ्चफुटोन्नतैका जालिका निबद्धयते। उभयतः सामान्य-समारम्भ-पङिक्तर्जालिकातः ६ फुट ६ इञ्चमिते दूरभागे समाकृष्यते। चटकिकाऽतिवस्वल्पभारवती भवति तथा ताडान -जालिकायाः स्पर्शमात्रेणोच्छलति। अस्या भारः ७५ ग्रेन तः ८५ ग्रेनमितो भवति।
अस्यां क्रीडायां सर्वविधस्यायुषो बाला युवका वृद्धा बालिका युवत्यो वृद्धाः स्वेच्छया सारल्येन भागं गृहीतुं प्रभवन्ति। अस्यां द्वौ क्रीडकौ चत्वारो वा मिश्रिताः क्रीडकाः क्रीडन्ति परं 'युग्मक-क्रीडा’ (डबल्स गेम) बहु प्रसिद्धा लोकप्रिय चाऽस्ति। क्रीडारम्भात् पूर्वमेकतमभागस्य द्वयोः क्रीडार्थिनोरेकतमस्ताडन -जालिकामुच्छालयति तस्याः पतने सति स्नायु -गुम्फितो भागोऽथवा हस्तग्रहणाभागो नीचैरागच्छति। येन क्रीडकेन यस्यै भागाय पणः कृतो भवति तथा तस्मिन् विजयी भवति। स प्रथमं क्रीडारम्भेऽथवा यस्मिन् क्रीडाक्षेत्रे स स्व-यौक्तिकैः सह क्रीडितुं वाञ्छति, क्रीडामाराभते। एतद्विषयको निर्णयस्तस्यैव पक्षेऽस्ति।