अनुशासन पर संस्कृत निबंध Essay on Discipline in Sanskrit Essay on Anushasan in Sanskrit : यहां पर अनुशासन पर संस्कृत में निबंध , "10 L...
अनुशासन पर संस्कृत निबंध Essay on Discipline in Sanskrit
Essay on Anushasan in Sanskrit: यहां पर अनुशासन पर संस्कृत में निबंध, "10 Lines on Anushasan in Sanskrit" and "Long Essay on Discipline in Sanskrit" language for Class 5, 6, 7, 8, 9 and 10
10 Lines on Anushasan in Sanskrit
- अस्माकं जीवने अनुशासनस्य महत्त्वपूर्ण स्थानम् अस्ति ।
- अनुशासनम् शब्द 'अनु' उपसर्गपूर्वक 'शासनम्' शब्देन निर्मितं अस्ति।
- शासनस्य कृते अनुशासनं परमावश्यकमस्ति।
- अनुशासनस्य अर्थमस्ति - शासनस्य अनुसरणम्।
- जीवनस्य प्रत्येकस्मिन् क्षेत्र कतिपयानां नियमानां पालनं आवश्यक वर्तते।
- यः देशः अधिकम् अनुशासन परिपालयति सः एव देशः उन्नतिपथं गच्छति।
- अनुशासनं हि कस्यापि देशस्य महत्वपूर्ण बलं वर्तते।
- अनुशासनाभावे छात्रा: सफलतां न प्राप्नुवन्ति।
- अनुशासनहीनाः छात्राः बहुमूल्य समय विनाशयन्ति।
- अनुशासने पालिते सर्वत्र सुव्यवस्था भवति।
- अनुशासन समाजस्य कल्याणाय, उन्नत्यै च आवश्यकं भवति।
- अतएव अनुशासनमत्यावश्यकं, सर्वेश्च परिपालनीयम्।
अनुशासन पर संस्कृत निबंध (Sanskrit Essay On Discipline)
अनुशासन का महत्व संस्कृत निबंध Anushasan ka Mahatva Essay in Sanskrit
अनुशासन का महत्व संस्कृत निबंध: अस्माकं जीवने अनुशासनस्य महत्त्वपूर्ण स्थानम् अस्ति । न केवलं मानवजीवने अपितु समाजे, राष्ट्रे,देशे वा अनुशासनस्य महती आवश्यकता वर्तते । यतोहि समाजे यदि जना: अनुशासनं न पालयन्ति , तर्हि अव्यवस्था भवति । अस्मिन् संसारे वस्तुत: अनुशासनमेव ईदृशं वस्तु येन अस्माकं सर्वाणि कार्याणि परिपूर्णानि भवन्ति , सम्यक्तया सहजेनैव च अनुशासनाभावे वयं किमपि कर्तुं न शक्नुमः ।
विषयेऽस्मिन् सेनायाः उदाहरणं महत्त्वपूर्णम् अस्ति । कस्यापि देशस्य सैनिकानां शक्ति: तेषां अनुशासने भवति। या सेना यादृशी अनुशासिता सा खलु शक्तिसम्पन्ना भवति। एवमेव यस्मिन् संगठने अनुशासनं कठोरं भवति,तदेव सफलं भवति सदैव समाजे । अन्यञ्च यदि जन: विद्यार्थिजीवने अनुशासित: स्यात् , तर्हि अवश्यमेव स: सफल: भवेत्।
एवमेव कस्मिन् अपि राष्ट्रे अनुशासनस्य परमावश्यकता भवति। अनुशासनविहीन: राष्ट्र: विनष्टः भवति । यदि बालक : बाल्यकाले अनुशासित: न स्यात् , तर्हि सः युवावस्थायां उच्छृङ्खल: भवति। सः कुमार्गगामी भवति । एवमेव स्त्रियः अपि अनुशासिता: सुगृहिणी भवितुं शक्या:। अनुशासनाभावे सा चरित्रभ्रष्टा भवति,उच्छृङ्खला च जायते।
वस्तुत: भारतवर्षे प्राचीनकालाद् एव अनुशासनस्य महत्ता वर्णिता अस्माकं शास्त्रेषु पदे-पदे। गुरुकुले शिष्य: गुरोः अनुशासनं मन्यते स्म , तस्य विद्यार्थिजीवने सर्वत्र अनुशासनस्य साम्राज्यमेव दृश्यते। यदि वयं महापुरुषाणां जीवनं अवलोकयाम: तर्हि निश्चयमेव तेषां जीवने महत: अनुशासनस्य दर्शनं कुर्मः।
सूक्ष्मदृष्ट्या अवलोकनेन प्रकृतिरपि अनुशासने बद्धा प्रतीयते। यतोहि सूर्य: प्रतिदिनं पूर्वस्यां दिशि निर्धारिते समये उदेति। षड्ऋतवोऽपि नियमपूर्वकमेव आयान्ति यान्ति च। आकाशे सर्वाणि नक्षात्रि अनुशासने निबद्धानिखलु परिभ्रमणं कुर्वन्ति।वायुरपिआनुशासित: प्रतिदिनं चलति। अनुशासिता: मेघा: नियमेन वर्षन्ति।यदिएतेसर्वेसम्यक् रूपेण अनुशासने न भवेयुः तर्हि सर्वा अव्यवस्था स्यात्।
एतां प्रकृतिं दृष्ट्वा खलु मानवैरपि सर्वैः अनुशासनस्य पालनं करणीयम्। यः जनः स्वेच्छाचारी भवति , तस्य समाजे नैव आदरो भवति। तस्य अनेकश: महती हानिरपि जायते। वस्तुत: अस्माकं सर्वेषु क्षेत्रेषु केचित् नियमाः निर्मिता:पूर्वैः जनैः,तेषां नियमानामेव सम्यक्तया पालनमेव अनुशासनं भवति। एतैः नियमैः खलु समाजव्यवस्था सुचारुरूपेण प्रचलति। अनुशासनम् अनेन प्रकारेण न केवलं मनुष्यस्य अपितु मानवतायाः कृते च कल्याणकारी अस्ति।
अत: अस्माभिः सर्वैः सदैव स्वकल्याणं दृष्ट्वा समाजकल्याणबुद्धया च सर्वदा अनुशासनम् स्वीकर्तव्यम्। अनेन अस्माकं सर्वेषां उन्नतिः भविष्यति। इति।
COMMENTS