Tuesday, 21 January 2020

नारी शिक्षा पर संस्कृत निबंध Sanskrit Essay on Girl Education

Sanskrit Essay on Girl Education : In this article we are providing नारी शिक्षा पर संस्कृत निबंध which is also searched as "stri shiksha par nibandh sanskrit mein" This Essay on Girl Education in Sanskrit is ideal for class 4, 5, 6, 7, 8, 9 and 10.

नारी शिक्षा पर संस्कृत निबंध Sanskrit Essay on Girl Education

शिक्षणं तावत् सर्वेषां मानवानां मूलभूतः अधिकारः। पुरुषाः यथा उन्नताध्ययनं कुर्वन्ति तथैव महिलाः अपि अध्येतु् अर्हन्ति। प्राचीनकाले अपि स्त्रियः विशेषाध्यायनं कुर्वन्ति स्म। वेदकाले गार्गी, मैत्रेयी, वाचक्नवी इत्याद्याः स्त्रियः स्वेषां ज्ञानवैभवेन विद्वत्सभासु विराजन्ते स्म। एतत् सर्वपि शिक्षणस्यैव प्रभावः। सुशिक्षिता स्त्री अन्यान् अपि शिक्षणार्थं प्रेरयति। कालान्तरे वैदेशिकैः अस्माकं देशः आक्रान्तः। तदा स्त्रीणां शिक्षणं स्थगितप्रायं सञ्जातम्।
अधुना सर्वत्र महिलानां शिक्षणोत्साहं पश्यामः विभिन्नक्षेत्रेषु अपि सा स्वसामथ्र्यं प्रदर्शयति। सा विमानचालने, धूशकटचालने, आरक्षकक्षेत्रे, तन्त्रज्ञाने, राजनीतिक्षेत्रे अपि पदं स्थापितवती। सर्वकारोऽपि महिलाभ्याः निशुल्कविद्याभ्यासः, उद्योगावकाशे आरक्षणम् इत्यादिरूपेण प्रोत्साहं ददाति। यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः इत्युक्तिम् अनुसृत्य सर्वाः महिलाः योग्यशिक्षणं संस्कारं च प्राप्य भारतस्य गरिमाणं वर्धयेयुः।

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: