Summer Vacation Essay in Sanskrit : In this article, We are providing ग्रीष्मावकाश पर संस्कृत निबंध for class 6, 7, 8, 9, 10, 11 and 12....
Summer Vacation Essay in Sanskrit : In this article, We are providing ग्रीष्मावकाश पर संस्कृत निबंध for class 6, 7, 8, 9, 10, 11 and 12. Students can Use Essay on Summer Vacation in Sanskrit Language to complete their homework.
ग्रीष्मावकाश पर संस्कृत निबंध - Summer Vacation Essay in Sanskrit
परीक्षा फलं श्रुत्वा हर्षित मानस: अहं कतिपयैः सहपाठिभिः सह कमपि पर्वतीय प्रदेशं दृष्टुकाम: विगते ग्रीष्मावकाशे नैनीताल नामकम् नगरम् गमनाय मतिं अकुर्वम्। महता उत्साहेन सकलां यात्रा सामग्री एकत्रीकृत्य वयम् सर्वे ज्येष्ठ मासस्य शुक्ले पक्षे एकादश्यां प्रात:। षट्वादन वेलायां वाष्पयान विराम स्थानं प्राप्ता: निर्धारित समयेन, वाष्प यानेन प्रचलिता:।
अन्येद्यु: प्रात: वयम् 'काठगोदाम' इति नामकं वाष्प-यान विराम स्थानं (स्टेशन) प्राप्ताः । तत्र यानात् अवतीर्य मोटर शकटेन नयनाभिरामं नैनीतालं प्रति प्रस्थिताः । मार्गे मनोहारि दृश्यं पश्यन्त: आत्मानमपि विस्मृतवन्त: । अचिरादेव वयम् नैनीतालं प्राप्ताः ।
प्रथममेव नयनाभिरामाम् 'नैनीलेक' इति नाम्ना प्रसिद्धां पुष्करिणीं दृष्टवा आनन्द मग्ना: जाताः । अस्याः पुष्करिण्या: सायंतनं दृश्यं अद्यापि हृत्पटले अंकितमेव । तस्या: रमणीये कूले सुन्दरा: युवान: युवतयश्च, क्रीडन्त: बाला:, लगुडहस्ता: वृद्धाश्च भ्रमन्त:, तिष्ठन्तः, वार्तालापं कुर्वन्त: अवलोक्यन्तेस्म । कुत्रचित् नौका विहारार्थम् नाव: प्लवन्ते। केचन स्नानं कुर्वत:, केचन प्रक्षालनं कुर्वतः, केचन क्रीड़ा रस निमग्ना: दृष्टिपथं आयान्ति स्म।
अन्यस्मिन् अहनि वयम् नैनीताल पर्वतस्य 'चीनापीक' इति प्रसिद्धं सर्वोच्चं शिखरम् दृष्टुं तत्र प्रस्थिताः । तत्रत्यां सुषमां दृष्टवा अन्येद्यु: 'नन्दा देवी' 'नैनी देवी' इति नाम्न्यो: देव्योः पूजां, अर्चनां, पादाभिवन्दनाञ्च कृत्वा पुन: स्वनगरं प्रत्यावर्तिताः ।
एवम् ग्रीष्मावकाशस्य क्षणानि व्यतीतानि ॥
COMMENTS