Essay on Allahabad in Sanskrit : In this article, We are providing इलाहाबाद पर संस्कृत निबंध अथवा तीर्थराजः प्रयागः संस्कृत निबंध for c...
Essay on Allahabad in Sanskrit : In this article, We are providing इलाहाबाद पर संस्कृत निबंध अथवा तीर्थराजः प्रयागः संस्कृत निबंध for class 6, 7, 8, 9, 10, 11 and 12. Students can Use Essay on Allahabad in Sanskrit Language to complete their homework.
इलाहाबाद पर संस्कृत निबंध - Essay on Allahabad in Sanskrit
प्रयागराजस्य सर्वत्रैव यशोगानं गीयते विशेषत: पुराणेषु, रामायणादिषु महाकाव्येषु च। भौगोलिक दृष्ट्या भारतवर्षस्य उत्तर प्रदेश राज्ये प्रयागराज: स्थितः। अत्र गंगा-यमुना-सरस्वतीनाम् सितासित पावने जले स्नानं कृत्वा मनुजा: पाप रहिताः भवन्ति इति विश्वस्यते धार्मिकैः जनैः। ब्रह्मणा अत्र प्रकृष्ट याग करणात् अस्य संगमस्थलस्य नाम प्रयाग: अभवत्।
माघ मासे लक्षाधिकाः जनाः प्रतिवर्ष अत्रागत्य संगमस्य पवित्रे जले स्नात्वा स्वकीयम् भौतिक शरीरं पावयन्ति, सिद्धपुरुषाणाम् दर्शनेन विदुषां उपदेशामृतेन च अन्तरात्माम् अपि प्रक्षालयन्ति। ऋषेः भारद्वाजस्य आश्रम: अपि प्रयागे एव स्थित: आसीत् यत्र प्राचीन समये दश सहस्त्र मिता: अन्तेवासिन: अधीतिनः आसन्।
अकबर नामक: मुगल शासक: अत्रैव गंगायमुनाभ्याम परिवृतं दृढं दुर्गमकारयत्। वर्षाऋतौ गंगाया: असह्य धारा प्रवाहात् दुर्गस्य रक्षणाय विशालं बन्धमप्यकारयत्। य: अद्यापि गंगाया: नगरस्य च मध्ये सीमारेखा इव स्थित:। अकबर: स्वकीयस्य ‘इलाही' धर्मस्य अनुसारेण प्रयागराजस्य नाम 'इलाहाबाद' इत्यकरोत्। इदं दुर्गम् अतीव विशालं सुदृढमस्ति।
प्रयागे पण्डित मोती लाल नेहरू महाभागस्य विशाले प्रासादे एव स्वतंत्रता आन्दोलनस्य प्रधान कार्यालय: आसीत्। सम्पूर्ण भवनम् ‘स्वराज्य भवन' इति नाम्ना प्रसिद्धिमवाप्तम् स्वतन्त्रता संग्रामकाले। इयमेव क्रीडास्थली एवं कर्मस्थली अस्माकम् राष्ट्रनायकस्य पण्डित जवाहर लाल नेहरू महाभागस्य।
अव देश-विदेशैः छात्रैः परिवृत: विविध विद्या पारंगतैः विद्वद्भिः उपशोभित: प्रयाग विश्व विद्यालय: अत्रैव शोभते। अस्य विश्व विद्यालयस्य या कीर्तिः सा न कस्यापि अन्यस्य विश्व विद्यालयस्य। प्रान्तस्य सर्वोच्च न्यायालय: अत्रैव विराजते । हिन्दी-प्रचार-प्रसारे समर्पितम् हिन्दी साहित्य सम्मेलनम् अपि अत्र स्थितम् । प्रति कुम्भम् कोटिशः जनाः सुदूरदूरात् आगत्य गंगायमुनयो: संगमे स्नान्ति कृतार्थयन्ति च आत्मानम्। महाकविना कालिदासेम सत्यमेव उक्तम:
समुद्रपल्यो: जल सन्निपाते, पूतात्मनामत्र किलाभिषेकात्।
तत्त्वावबोधन विनापि भूयः तनुज्यजां नास्ति शरीरबन्धः।
COMMENTS