Wednesday, 23 May 2018

Essay on Mango Tree in Sanskrit language

Essay on Mango Tree in Sanskrit language

Essay on Mango Tree in Sanskrit language

एषः आम्रवृक्षः। एषः वृक्षः उन्नतः विस्तीर्णः च अस्ति। न केवलं तस्य पक्वानि फलानि अस्मभ्यं रोचन्ते अपितु अपक्वानि अपि। वसन्ते ऋतौ अपक्वानि आम्रफलानि भवन्ति तानि एव ग्रीष्मे पक्वानि मधुराणि च जायन्ते।  वसन्ते ऋतौ एतस्मिन् नूतनाः पल्ल्वाः विलसन्ति। अनन्तरं मञ्जर्यः विराजन्ते। मञ्जरीणां सुगन्धेन सर्वपरिसरः सुगंधितः भवति। तदा आम्रवृक्षस्य शोभा अवर्णनीया भवति। आम्रवृक्षस्य छाया निबिडा शीतला च भवति। आतपेन तप्ताः जनाः तस्य छायाम् आश्रयन्ते आनन्दिताः च भवति। सर्वफलेषु आम्रफलं श्रेष्ठम् इति जनाः मन्यन्ते। जनाः आम्रवृक्षं मंगलकरमपि मन्यन्ते। अतः जनाः तोरणेषु एतस्य पर्णानां उपयोगं कुर्वन्ति।  

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 comments: