Sunday, 20 May 2018

मेरा भारत महान संस्कृत निबंध। Essay on our country in sanskrit

मेरा भारत महान संस्कृत निबंध। Essay on our country in sanskrit

मेरा भारत महान संस्कृत निबंध। Essay on our country in sanskrit

Essay on our country in sanskrit
भारतस्माकं प्रियदेशः। एषः देशः देशानां शिरोमणिः खलु। अस्य प्राकृतिकं सौन्दर्यं बलवत् मनः मोहयति। अस्य उत्तरस्यां दिशि पर्वतराजः हिमालयः विराजते। एषः पर्वतः भारतस्य प्रहरी खलु। भारतस्य दक्षिणेन महासागरः अस्य चरणं प्रक्षालयति। भारतवर्षे अनेकाः नद्यः प्रवहन्ति। एतासां तटेषु पवित्राणि नगराणि विराजन्ते। नद्यः लोकमातरः भवन्ति। भारतस्य हरितानि वनानि अस्य शोभां वर्धयन्ति। प्राचीनकाले अस्माकं देशः अन्यदेशानां गुरुः मन्यते स्म। अत्र नालंदा-तक्षशिला-नवद्वीपप्रभृतयः अनेके प्रख्याताः विश्वविद्यालयाः आसन्। वैदेशिकाः उच्चशिक्षार्थं अत्रागत्य विद्यामर्जयन्ति स्म। अस्य महिमा अवर्णनीयः अस्ति। अस्य गौरवम् अतुलनीयम् अस्ति।  

Saturday, 19 May 2018

भारतस्य राष्ट्रध्वजः संस्कृत निबंध। Sanskrit Essay on Our National Flag

भारतस्य राष्ट्रध्वजः संस्कृत निबंध। Sanskrit Essay on Our National Flag

भारतस्य राष्ट्रध्वजः संस्कृत निबंध। Sanskrit Essay on Our National Flag

Sanskrit Essay on Our National Flag
राष्ट्रियः ध्वजः राष्ट्रस्य संकेतः। अस्माकं राष्ट्रियध्वजे त्रयः रंगाः सन्ति। इयं त्रिरंगी भारतवर्षस्य परिचयं धारयति। अयं ध्वजः अतीव मनोरमः। अस्य ध्वजस्य उर्ध्वदेशे केसररंगः, मध्ये धवलः रंगः, अधोदेशे हरितः रंगः च विन्यस्ताः। धवलांशस्य मध्ये अशोकचक्रं वर्तते। अशोकचक्रे अराणां चतुर्विंशतिः अस्ति। तत्र केसररंगः वीरत्वस्य त्यागस्य च, धवल रंगः पवित्रतायाः शान्तेः च, हरितरंगः उन्नतेः समृद्धेः च, अशोकचक्रं सत्यस्य तथा प्रगतेः च प्रतीकं। प्रमुखराष्ट्रियमहोत्सवयोः सर्वे स्वस्थाने राष्ट्रियध्वजं उड्डयितुं शक्नुवन्ति। स्वाधीनता दिवसः, गणतंत्र दिवसः, गान्धिजयन्ती च त्रयः प्रधानाः राष्ट्रोत्सवः। अयं ध्वजः देशस्य सार्वभौमतायाः प्रतीकम्।

Friday, 18 May 2018

दशहरा या विजयादशमी पर संस्कृत में निबंध

दशहरा या विजयादशमी पर संस्कृत में निबंध

दशहरा या विजयादशमी पर संस्कृत में निबंध 

dussehra essay in sanskrit
विजयादशमी भारतीयानां पवित्रं पर्व भवति। एतत् पर्व आश्विनमासस्य शुक्लपक्षस्य दशम्यां तिथौ सम्पाद्यते। इयं तिथिः विजयसूचिका मन्यते। अस्मिन् दिवसे श्रीरामः रावणस्य निधनं कृत्वा विजयं प्राप्तवान्। अस्मिन्नेव दिवसे दुर्गा शुम्भं निशुम्भं च अमारयत्। एतत् दिनं विजयेन सम्बन्धितमस्ति। अतः एतत् दिनं विजयादशमी नाम्ना प्रसिद्धम्। 

यद्यपि अयमुत्सवः आश्विनमासस्य शुक्लपक्षस्य दशम्यां तिथौ मन्यते, तथापि उत्सवात् दशदिनपूर्वमेव रामकथायाः रामलीलायाः संकीर्त्तनादीनां च आयोजनं भवति। जनाः उत्साहेन रामलीलां पश्यन्ति। दशम्यां तिथौ रावणकुम्भकर्ण-मेघनादानां च अग्निसंयोगः क्रियते। सायंकाले रामलीलाक्षेत्रे लोकानां विपुलः समागमः भवति। 

तस्मिन् समये रामस्य लक्ष्मणस्य हनुमतः च वेशेन कलाकाराः तत्र आगच्छन्ति। हनुमान् च दशहरास्थानमागच्छति। हनुमता कृत्रिमा लंका दह्यते। उपस्थिताः जनाः श्रीरामस्य जयध्वनिं कुर्वन्ति। अयमुत्सवः अधर्मस्य उपरी धर्मस्य, असत्यस्य उपरि सत्यस्य, दुर्जनतायाः उपरि सज्जनतायाः विजयस्य प्रतीकमस्ति। वस्तुतः एषः उत्सवः परमपावनः अस्ति। 


Thursday, 17 May 2018

वसंत ऋतु पर संस्कृत निबंध। Vasant Ritu Par Sanskrit Nibandh

वसंत ऋतु पर संस्कृत निबंध। Vasant Ritu Par Sanskrit Nibandh

वसंत ऋतु पर संस्कृत निबंध। Vasant Ritu Par Sanskrit Nibandh

Vasant Ritu Par Sanskrit Nibandh
भारते एकस्मिन् वर्षे षट् ऋतवः भवन्ति। एषु ऋतुषु वसंतऋतुः प्रथमः ऋतुः अस्ति। अयं ऋतुः अतीव रमणीयः भवति। अस्मिन् ऋतौ प्रकृतौ सर्वत्र अपूर्वं सौंदर्यं दृश्यते। जड़े चेतने च सर्वत्रनवः उल्लासः अवलोक्यते। नरेषु, नारीषु, बालकेषु, वृद्धेषु च कापि अपूर्वा मादकता समायाति। अस्माकं देशस्य प्रसिद्धः वसंतोत्सवः होलिका अस्यैव ऋतोः आरम्भे भवति। 

अस्मिन् ऋतौ शीतलः मन्दः सुगन्धिश्च वायुः वहति। इदानीं न अधिकं शीतं भवति न अधिका उष्णता भवति। अनेन कारणेन भ्रमणे, खेलने, कूर्दने च महान् आनन्दः भवति। एभिः कारणैः ,अयं बसन्तः ऋतुराजः इति कथ्यते। 

वसंत ऋतु पर  संस्कृत निबंध संख्या (1) 
वसंत ऋतु पर  संस्कृत निबंध संख्या (2)

Wednesday, 16 May 2018

Sanskrit Essay on India - भारत देश पर संस्कृत निबंध

Sanskrit Essay on India - भारत देश पर संस्कृत निबंध

Sanskrit Essay on India - भारत देश पर संस्कृत निबंध 

अस्माकं देशस्य प्राचीनं नाम "भारतं" वर्तते। सम्प्रति अस्य हिन्दुस्तान, हिन्द, इण्डिया इत्यपि नामानि सन्ति। अस्य पूर्वदिशायां बर्मा देशः अस्ति। दक्षिणदिशायां लंका अस्ति। पश्चिमदिशायां अफगानिस्तानं वर्तते। उत्तरदिशायां च हिमालयः अस्ति। अस्य खण्डितः भागः पाकिस्तान इति कथ्यते। 

अस्माकं देशः संसारस्य देशेषु अति पुरातनः देशः अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अयं देशः ज्ञानस्य धर्मस्य च आदिजन्मभूमिः अस्ति। अत्रैव वेदानां प्रादुर्भावः बभूव। अत्रैव मानवसभ्यता सर्वप्रथमं जन्म लेभे। इतः एव संसारे सर्वत्र सभ्यतायाः प्रचारः बभूव। अस्य महिमा अवर्णनीयः अस्ति। अस्य गौरवम् अतुलनीयम् अस्ति।  

सम्प्रति अस्माकं देशः यत् भारतं विद्यते तस्य भागद्वयम् अस्ति। एकं दक्षिणभारतम्, द्वितीयं उत्तरभारतञ्च दक्षिणभारते आन्ध्रप्रदेशः, केरलः, कर्नाटकः, तमिलनाडुः च इति इमे चत्वारः प्रदेशाः सन्ति। उत्तरभारते निम्नलिखितानि राज्यानि सन्ति। यथा अरुणाचल प्रदेशः, आसामः, महाराष्ट्रम्, मणिपुरम्, मिज़ोरमः, मेघालयः, नागालैंडः,त्रिपुरा, उड़ीसा, पंजाबः, राजस्थानम्, सिक्किमः, उत्तरप्रदेशः,पश्चिम बंगालः, मध्यप्रदेशः, जम्मू-काश्मीरश्च।  

Tuesday, 15 May 2018

कम्प्यूटर पर संस्कृत निबंध। Computer Essay in Sanskrit

कम्प्यूटर पर संस्कृत निबंध। Computer Essay in Sanskrit

कम्प्यूटर पर संस्कृत निबंध। Computer Essay in Sanskrit

Computer Essay in Sanskrit
कम्प्यूटर शब्दः आंग्लभाषायाः गणनार्थकात् कम्प्यूट शब्दाद् निष्पद्यते। अतः कम्प्यूटरस्य कृते संगणक-शब्दः प्रयुज्यते। आधुनिकेषु आविष्कारेषु कम्प्यूटरस्य विशिष्टं महत्वं वर्तते। वर्तमान-युगः संगणक-युगः इति निगद्यते। संगणकेन मानव-जीवने नवीनाः क्रान्तिः विहिता। संगणकः ज्ञानविज्ञानवार्धकं यन्त्रं विद्यते। सर्वप्रथमं सांख्यिकी-कम्प्यूटरस्य निर्माणं पेनसिलवेनिया- विश्वविद्यालये 1946 ईसवीये अभवन्। तदा एतस्य भारः त्रिंशत्-टन-परिमितम् आसीत्। साम्प्रतं कम्प्यूटरः अतिद्रुतगत्या विकासं कुर्वन् लोकस्य उपयोगितां साधयति। आकार-प्रकार-दृष्टया कार्यक्षमतां चाश्रित्य कम्प्यूटरः चतुर्वर्गेषु विभाज्यते। 
(1) मेन फ्रेम कम्प्यूटरः  (2) मिनी कम्प्यूटरः  (3) माइक्रो कम्प्यूटरः  (4) सुपर कम्प्यूटरः 

Monday, 14 May 2018

विज्ञान के चमत्कार संस्कृत निबंध। Vigyan ke Chamatkar in Sanskrit

विज्ञान के चमत्कार संस्कृत निबंध। Vigyan ke Chamatkar in Sanskrit

विज्ञान के चमत्कार संस्कृत निबंध। Vigyan ke Chamatkar in Sanskrit

Vigyan ke Chamatkar in Sanskrit

वर्तमानयुगो विज्ञानस्य युगो गण्यते। विज्ञानं जीवनस्य प्रत्येकं पक्षं प्रभावयति। आर्थिकं सामाजिकं राष्ट्रीयम् अंतर्राष्ट्रीयम् च सर्वमेव एतत् प्रभावयति। आविष्काराणां तादृशी प्रगतिरभूद्, या सर्वथा आश्चर्यं आवहति। समग्रं विश्वं वैज्ञानिकानां नवीनं-नवीनं आविष्कारम् अवलोक्य आश्चर्यचकितमिव वर्तते। अद्यत्वे न कोSपि पक्षो वर्तते, यत्र न विज्ञानस्य प्रवेशः। 

अद्यत्वे कम्प्यूटरस्य संगणकस्य वा आविष्कारो विज्ञानस्य सर्वोत्कृष्टा उपलब्धिः। इंटरनेट, ई-मेल, ई-कॉमर्स-प्रभृतयः संगणकस्य प्रयोगेण नूतनां क्रान्तिं जनयन्ति। विद्युतः आविष्कारोSतिमहत्वपूर्णोSस्ति। चिकित्साक्षेत्रे विज्ञानेन अपूर्वा क्रान्तिः प्रवर्तिता। संचारक्षेत्रे अपि विज्ञानस्य चमत्कारो दृश्यते। दूरभाषेण जगति यत्र-कुत्रापि स्थितेन परिचितेन संभाषणं कर्तुं शक्यते। मोबाइल इत्यस्य अविष्कारेण नूतनाः क्रान्तिः संजाता। 

मनोरंजनक्षेत्रे अपि विज्ञानस्य चमत्कारो दृश्यते। सिनेमा-दूरदर्शनादीनाम् आविष्काराः प्रत्यहं प्रतिक्षण-वृत्तं बोधयन्ति। रेडियो-वीडियो-वीडियो क्रीडााः मनोरंजनं कुर्वन्ति। 

विज्ञानेन यातायात-साधनेषु नवीनैः आविष्कारैः सर्वे अपि देशः समीपस्थाः कृताः। साम्प्रतं रेल-बस-कार-वायुयान-जलयानानां साहाय्येन दूरस्थो अपि देशः स्वल्पेनैव कालेन प्राप्यते।  

Saturday, 12 May 2018

सर्कस पर छोटा निबंध | Short Essay on Circus in Hindi

सर्कस पर छोटा निबंध | Short Essay on Circus in Hindi

सर्कस पर छोटा निबंध। Short Essay on Circus in Hindi 

सर्कस लोगों के अनेक मनोरंजन के साधनों में से एक है। सर्कस में आदमी, औरतें, पशु-पक्षी तथा बच्चे भिन्न-भिन्न प्रकार से अपने करतब दिखाते हैं। इसी प्रकार का एक सर्कस अपोलो सर्कस लाल किले के मैदान में लगा हुआ था। सौभाग्य से हमें उसे देखने का अवसर प्राप्त हुआ। हमने टिकट खरीदे और अंदर प्रवेश किया ही था कि सर्कस की घंटी बज गई। हम तुरंत ही अपनी अपनी सीटों पर बैठ गए तभी सर्कस प्रारंभ हो गया। 

अचानक देखते हैं कि सामने सर्कस के प्रांगण में कुछ जोकर खड़े हैं। जैसे ही सर्कस प्रारंभ हुआ तो कुछ लड़कों और लड़कियों ने अपने भिन्न भिन्न प्रकार के करतब तथा कसरत दिखाए। तभी एक व्यक्ति ने मौत के कुएं में मोटरसाइकिल चला कर दिखायी। कुछ देर बाद जानवरों के करतब का कार्यक्रम प्रारंभ हुआ उसमें हाथियों तथा शहरों के बीच विभिन्न खेल दिखाए गए। हाथियों ने तो क्रिकेट भी खेल कर दिखाया जो हम सब को बहुत अच्छा लगा। एक व्यक्ति ने अपने शरीर पर जलता हुआ मोम डाल कर दिखाया। फिर एक लड़की ने लोहे के रिंग में से उछलते हुए निकल कर दिखाया तभी कुछ लड़कियों ने साइकिल के करतब दिखाए। 

अंत में कुछ लोगों ने एक पुरानी कार पर अपने करतब दिखाकर लोगों को बहुत हंसाया। परंतु इन सब में मुझे सबसे ज्यादा जिमनास्टिक का कार्यक्रम पसंद आया। वह अपने कार्य में बहुत ही कुशल थे इस प्रकार हमें सर्कस देख कर बहुत अच्छा लगा इस सर्कस की सुनहरी याद आज भी हमारे दिल में ताजा है।

Thursday, 10 May 2018

किसान पर संस्कृत में निबंध। Essay on Farmer in Sanskrit

किसान पर संस्कृत में निबंध। Essay on Farmer in Sanskrit

किसान पर संस्कृत में निबंध। Essay on Farmer in Sanskrit

ये कृषिं कुर्वन्ति ते कृषकाः कथ्यन्ते। अस्माकं देशः कृषिप्रधानः देशः अस्ति। अत्र कृषकाणां संख्या अधिका वर्तते। कृषकाः कृषिं कृत्वा जीवनोपयोगीनि बहूनि वस्तूनि उत्पादयन्ति। तैः एव वस्तुभिः सर्वे जनाः जीवन्ति। अतः समाजस्य जीवनं धारणं च कृषकाणां एव उपरि निर्भरं वर्तते। 

कृषिः महता परिश्रमेण भवति। अत एव कृषकाणां दिनचर्या अतीव श्रममयी भवति। तेषां जीवने विश्रामाय मनोरंजनाय वा अतीव अल्पः अवसरः लभ्यते। कृषकाः प्रातःकालात् आरभ्य सायंकालपर्यन्तं कठिनं परिश्रमंकुर्वन्ति। रात्रौ अपि ते पूर्णरूपेण विश्रामाय शयनाय का समयं न लभन्ते। 

कृषकाः बहूनि कष्टानि सहन्ते तथापि तेषां कार्यस्य समाप्तिः न भवति। एतादृशं घोरं परिश्रमं कुर्वणाः अपि कृषकाः सुखिनः न सन्ति इति महतः दुःखस्य विषयः वर्तते। 


Wednesday, 9 May 2018

सरस्वती पूजा पर संस्कृत निबंध। Saraswati Puja in Sanskrit

सरस्वती पूजा पर संस्कृत निबंध। Saraswati Puja in Sanskrit

सरस्वती पूजा पर संस्कृत निबंध। Saraswati Puja in Sanskrit

Saraswati Puja in Sanskrit
सरस्वती अस्माकं एका देवी अस्ति। इयं ज्ञानस्य देवी अस्ति। सरस्वत्याः चत्वारः हस्ताः भवन्ति। तेषु एकस्मिन् हस्ते पुस्तकं धारयति, एकस्मिन् हस्ते मालां धारयति, एकस्मिन् हस्ते वीणां धारयति तथा एकेन हस्तेन वीणां वादयति। 

सरस्वत्याः वाहनं हंसः अस्ति। इयं पद्मासने तिष्ठति। इयं शुक्लानि वस्त्राणि धारयति। अस्याः मूर्तिः अतीव मनोहरा गम्भीरा शान्तिमयी प्रसन्नकारा च भवति। 

सरस्वती ज्ञानस्य अधिष्ठात्री देवी अस्ति। इयं ज्ञानमयी अस्ति। इयं ज्ञानं ददाति, अज्ञानं च निवारयति। इयं विवेकं ददाति, अविवेकं च निवारयति। इयं विद्याम ददाति अविद्यां च नाशयति। 

अतएव सर्वे विद्योपासकाः सरस्वतीं सेवन्ते, सरस्वतीं प्रणमन्ती, सरस्वतीं पूज्यन्ति, सरस्वतीं स्तुवन्ति तथा सरस्वतीं एव उपासते। 

सरस्वती एव विदुषां विद्यार्थिनां च महामान्या देवी अस्ति। अत एव वसन्तपञ्चम्यां भारतस्य सर्वेषु अपि विद्यालयेषु महता समारोहेण सरस्वत्याः पूजा भवति। 

Tuesday, 8 May 2018

गणतंत्र दिवस पर संस्कृत में निबंध। Essay on Republic Day in Sanskrit

गणतंत्र दिवस पर संस्कृत में निबंध। Essay on Republic Day in Sanskrit

गणतंत्र दिवस पर संस्कृत में निबंध। Essay on Republic Day in Sanskrit

Republic Day in Sanskrit
अस्माकं देशः १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के स्वतन्त्रम् अभवत् । परन्तु तदानीं अस्य किमपि स्वकीयं संविधानं न आसीत्। अतः डॉ राजेंद्रप्रसाद महोदयानाम् अध्यक्षतायां संविधाननिर्माणाय एकस्याः परिषदः स्थापना अभवत। यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः। अतः अयं दिवसः बहुमहत्वपूर्णः विद्यते। 

अस्मिन् दिवस सर्वासु शिक्षण-संस्थासु ध्वजोत्तोलनं भवति, विविधाः कार्यक्रमाः आयोज्यन्ते, राष्ट्रगानं गीयते, मिष्टान्नादीनां वितरणं च क्रियते। सर्वेषु अद्भुतः आनन्दः, उत्साहः, देशभक्तिश्च दृश्यते। अयं उत्सवः दिल्लीनगरे महता उल्लासेन हर्षेण च सह मान्यते। अस्मिन दिवसे राष्ट्रपतिः राष्ट्रस्य नाम्ना संदेशं प्रसारयति। अस्य उत्सवस्य सर्वेSपि कार्यक्रमाः रेडियो-दूरदर्शन-प्रभृतियन्त्राणां मध्यमेन समग्रेSपि देशे श्रव्यन्ते दर्श्यन्ते च। 

Monday, 7 May 2018

स्वतंत्रता दिवस पर संस्कृत निबंध। Essay on Independence Day in Sanskrit

स्वतंत्रता दिवस पर संस्कृत निबंध। Essay on Independence Day in Sanskrit

स्वतंत्रता दिवस पर संस्कृत निबंध। Essay on Independence Day in Sanskrit

Essay on Independence Day in Sanskrit
स्वतंत्रता सर्वेभ्यः प्राणिभ्यः प्रिया भवति। जीवजन्तयोSपि पराधीनतायां कष्टस्य अनुभवं कुर्वन्ति। १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः अयं दिवसः "स्वतंत्रतादिवसः" इति कथ्यते। अस्मिन् दिवसे राष्ट्रपतिः राष्ट्रं सम्बोधितवान्। देशभक्ताः इमं राष्ट्रीयपर्वरूपेण स्मरन्ति। यद्यपि अस्माकं देशे अनेकानि राष्ट्रीयपर्वाणि सन्ति परन्तु इदं एकम् अत्यन्तं महत्वपूर्णं राष्ट्रीयं पर्वं विद्यते। अयं दिवसः इतिहासे सुवर्णाक्षरै अंकितः अस्ति। इमं दिवसं सर्वे जनाः महता उत्साहेन सम्मानयन्ति। बालाः वृद्धाः युवानश्च सर्वे प्रसन्नाः दृश्यन्ते।  सर्वत्र भारतमातुः जयस्य तुमुलध्वनिः श्रूयते। 

Saturday, 5 May 2018

वर्षा ऋतू पर संस्कृत निबंध। Rainy Season Sanskrit Essay

वर्षा ऋतू पर संस्कृत निबंध। Rainy Season Sanskrit Essay

वर्षा ऋतू पर संस्कृत निबंध। Rainy Season Sanskrit Essay

वर्षा ऋतू पर संस्कृत निबंध। Rainy Season Sanskrit Essay

ऋतुषु तृतीयः ऋतुः वर्षा-ऋतुः भवति। ग्रीष्मानन्तरं वर्षा-ऋतुः आगच्छति। वर्षा-ऋतौ अधिकतया वृष्टिः भवति। अत एव  अयं ऋतुः वर्षा-ऋतुः कथ्यते। वर्षा-ऋतौ प्रायेण  सर्वत्र वृष्टिः भवति। आकाशमण्डलं निरन्तरं मेघैः आच्छन्नं तिष्ठति। कदाचित् जलबिन्दवः पतन्ति। 

वर्षा-ऋतौ दृश्यम् अतीव रमणीयं भवति। वनेषु उपवनेषु, वाटिकासु, वृक्षेषु च सर्वत्र हरीतिमा दृष्टिगोचरीभवति। वर्षा-ऋतौ प्रकृतिनटी विविधानि रूपाणि धारयति। कदाचित् मेघाः गर्जन्ति। कदचित् विद्युतः विस्फुरन्ति। कदाचित् झंझावातः वाति। कदाचित् प्रकाशः भवति। कदाचित् अन्धकारः भवति। कदाचित् च इंद्रधनुषः प्रकाशते। 

वर्षा-ऋतौ सर्वेषां महान् आनन्दः भवति। वनेषु मयूरः नृत्यन्ति। जलाशयेषु मण्डूकः रटन्ति। बिलेषु झिल्लिकाः नदन्ति। वृक्षेषु चातकाः कूजन्ति तथा वीथिषु बालकाः खेलती। 

वर्षाणां समयः कृष्यै अपि बहु लाभदायकः भवति। अस्मिन् समये कृषकाः भूमि कर्षन्ति। क्षेत्रेषु बीजानि वपन्ति। 

Tuesday, 1 May 2018

एकता पर संस्कृत निबंध। Essay on Unity in Sanskrit

एकता पर संस्कृत निबंध। Essay on Unity in Sanskrit

एकता पर संस्कृत निबंध। Essay on Unity in Sanskrit

Essay on Unity in Sanskrit
मतभेदस्य विरोधस्य वा अभावः एकता इति उच्यते। एकतायाः अपरं नाम "ऐक्यं सङ्घटनं" वा इत्यपि वर्तते। मनुष्याणां सांसारिकजीवनस्य कृते एकता महान् लाभकारी गुणः अस्ति। यदि संसारे मनुष्येषु एकता न स्यात् तर्हि तेषां एकदिनस्यापि जीवनं कठिनं सम्पद्येत। एकतायां महती शक्तिः भवति। यत् कार्यं एकेन न कर्तुं शक्यते तद् बहूनां सम्मिलितेन समुदायेन सुगमतया एव भवति। 

वर्तमानसमये एकतायाः महान् अभावः अस्ति। परिवारे समाजे देशे तथा सम्पूर्णे संसारे सर्वत्रैव अनेकतायाः, मतभेदस्य च भयंकरः झंझावातः प्रवाहमानः दृश्यते। एतस्य प्रधानं कारणं तु स्वार्थपरता एव अस्ति। सर्वे स्वकीयमेव हितं पश्यन्ति न अन्येषाम्। अतः एकतायाः स्थापनाय परस्परं स्नेह-सौहार्द-वर्धनाय च स्वार्थसाधनेन सहैव परेषामपि स्वार्थ-रक्षणाय उपरि ध्यानदानं परमावश्याकं वर्तते। 

Sunday, 29 April 2018

समय का महत्व संस्कृत निबंध। Samay ka Mahatva in Sanskrit

समय का महत्व संस्कृत निबंध। Samay ka Mahatva in Sanskrit

समय का महत्व संस्कृत निबंध। Samay ka Mahatva in Sanskrit

Samay ka Mahatva in Sanskrit

समयस्य समुचिते रूपे उपयोगः एव समयस्य सदुपयोगः कथ्यते। समयस्य सदुपयोगः मानवसमाजस्य हितसाधकेषु साधनेषु साधनं वर्तते।संसारे बहूनि वस्तूनि बहुमूल्यानि सन्ति परं तेषु सर्वापेक्षया बहुमूल्य वस्तु समयः एव वर्तते। यतः अन्यानि वस्तूनि विनष्टानि अपि पुनः लब्धुं शक्यन्ते परन्तु व्यतीतः समयः केनापि उपायेन पुनः लब्धुं न शक्यते। विद्या विनष्टा पुनः अभ्यासेन लब्धुं शक्यते, धनं विनष्टं पुनः उपार्जनेन लब्धुं शक्यते, यशः विनष्टं पुनः सत्कर्मणा उपार्जयितुं शक्यते परं विनष्ट: समयः सहस्त्रैअपि प्रयत्नैः दुर्लभः एव।
अतएव समयः सर्वाधिकं बहुमूल्यं वस्तु मन्यते।

अस्माकं भारतीयानां कृते अयं राष्ट्रनिर्माणस्य कालः वर्तते। अस्माकं स्कन्धेषु राष्ट्रनिर्माणस्य महान् भारः वर्तते। अस्मिन् समये तु विशेषरूपेण अस्माभिः समयस्य सदुपयोगे ध्यानं दातव्यं येन शीघ्रतया राष्ट्रस्य समुन्नतिः स्यात्। अस्मिन् विषये छात्रैः विशेषरूपेण ध्यानं देयम्। यतः ते एव भारतस्य भाविनः कर्णधाराः तथा भाग्यविधातारः सन्ति।